________________
३६
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं [सू. ३३-३६ गा. ५५ अवगाहेण वि अंगुलस्स असंखेयभागो चेव, एवमहोलोगो वड्ढेययो जाव अहोलोगंतो सत्तरज्जूओ, सत्तरज्जुपतरेहितो वि उवरिं कमेण खुड्डागपयरा भाणियव्या जाव तिरियलोयमज्झा रज्जुप्पमाणा खुड्डागपयर त्ति ।
एवं खुड्डागपरूवणे कते इमं भन्नइ-"उवरिम" त्ति तिरियलोयमज्झाओ अहो जाव णव जोयणसयाणि ताव इमीसे रयणप्पभाए पुढवीते उवरिमखुड्डागपतर त्ति भन्नंति, तदधो अधोलोगे जाव अहोलोगिया गाम त्ति 5 एए हेहिमखुड्डागपयर त्ति भन्नंति, रिजुमती अहो ताव पस्सति त्ति भणियं होइ । अहवा अहोलोगस्स उवरिमा
खुड्डागपयरा तिरियलोगस्स य हेद्विमा खुड्डागपयर त्ति ते जाव पश्यतीत्यर्थः । अन्ने भणंति-"उवरिम" त्ति अधोलोगोवरि जे ते उवरिमा, के य ते ?, उच्यते, सबतिरियलोगवत्तिणो तिरियलोगस्स वा अहो नवजोयणसतवत्तिणो, ताण चेव जे हेट्ठिमा ते जाव पश्यतीत्यर्थः, इमं च ण घडति, अहोलोइययाममणपजवणाणसंभवबाहल्लत्तणओ (? संभवपाहण्णत्तणओ)। उक्तं च10 इहाघोलौकिका ग्रामा न तिर्यग्लोकवर्तिनः । मनोगतांस्त्वसौ भावान् वेत्ति तद्वर्तिनामपि ॥१॥
__ अलं प्रसङ्गेन । एवमूर्ध्व यावज्ज्योतिश्चक्रस्योपरितलम् , तिर्यग् यावद् 'अन्तोमनुष्यक्षेत्रे' मनुष्यलोकान्त इत्यर्थः । शेषं सुगमं यावत् “सण्णीणं पंचिंदियाणं" इत्यादि । तत्र संज्ञिनोऽपान्तरालगतावपि तदायुष्कसंवेदनादभिधीयन्त एव, न तैरिहाधिकार इत्यतः पश्चेन्द्रियग्रहणम् , तेऽपि चोपपातक्षेत्रपाप्ता अपि मनःपर्याप्त्या अपर्याप्तका 15 अपि भण्यन्ते, न च तैरपीहाधिकार इत्यतः पर्याप्तकग्रहणमिति । स्वरूपकथनं वा सज्ञिनां पञ्चेन्द्रियाणां पर्याप्त
कानामिति । अथवा संज्ञिनो हेतुवादोपदेशेन विकलेन्द्रिया अपि भण्यन्ते, तद्वयवच्छेदार्थ पञ्चेन्द्रियग्रहणम् , तेऽप्यपर्याप्तका अपि भवन्ति अतः पर्याप्तकग्रहणमिति । “तं चेवे"त्यादि, इह क्षेत्राधिकारस्यैव प्राधान्यात् 'तदेव' मनोलब्धिसमन्वितजीवाधार क्षेत्रमभिगृह्यते । विपुलमतिः अर्द्ध तृतीयस्य येषु तान्यर्द्धतीयानि तैरभ्यधिकतरम् , प्रभूत
तरमित्यर्थः, तदेव प्राकृतशैल्या अभ्यधिकतरकम् , एवं शेषेष्वपि द्रष्टव्यम् । तत्रैकदिशमप्यधिकतरं भवत्यतः 20 सर्वतोऽभ्यधिकतरमिति प्रतिपादनार्थमाह-'विपुलतरं विस्तीर्णतरम्, अथवाऽऽयाम-विष्कम्भावाश्रित्याभ्यधिकतरम्,
वाहल्यमाश्रित्य विपुलतरम् । तथा 'विशुद्धतरं' निर्मलतरमित्यर्थः, यथा चन्द्रकान्तादिप्रकाशकद्रव्यं विमलविमलतरविशेषाद् विमलप्रकाशितद्रष्टुः सकाशाद् विमलतरप्रकाशितद्रष्टा विशुद्धतरं पश्यति, एवं विष्कम्भितोदयमन:पर्यायज्ञानावरणस्य कारणभेदतो मन्दमन्दतरविशेषभावाद् ऋजुमतेः सकाशाद् विपुलमतिर्विशुद्धतरमिति, उप
शान्तावरणविशेषादपि ज्ञानस्य विशेष इत्येतावतांऽशेन दृष्टान्तः । तथा तदावरणक्षयोपशमविशेषाच 'वितिमिरतरं' 25 निर्मलतरम् । अथवा प्रारबद्धतदावरणकर्मक्षयोपशमस्य प्रधानखाद् विशुद्धतरम् , बध्यमानावरणकर्मक्षयोपशमविशेषाच वितिमिरतरम् , बध्यमानाभावाच्च वितिमिरतरमित्यन्ये । अथवैकार्थिका एवैते शब्दाः नानादेशजानां विनेयानां कस्यचित् कश्चित् प्रसिद्धो भवतीत्युपन्यस्ताः। क्षेत्रं "तात्स्थ्यात् तद्वयपदेशः" इति जानाति पश्यति । शेषं निगदसिद्धं यावत्
३३. मणपज्जवणाणं पुण जणमणपरिचिंतियत्थपायडणं । 30 माणुसखेत्तणिबद्धं गुणपञ्चइयं चरित्तवओ ॥ ५५ ॥
से तं मणपज्जवणाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org