________________
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[सू. ३७-४० तं जहा-पढमसमयसजोगिभवत्थकेवलणाणं च अपढमसमयसजोगिभवत्थकेवलणाणं च, अहवा चरिमसमयसजोगिभवत्थकेवलणाणं च अचरिमसमयसजोगिभवत्थकेवलणाणं च । से तं सजोगिभवत्थकेवलणाणं ।
३६. अथ किं तत् सयोगिभवस्थकेवलज्ञानम् ?, सयोगिभवस्थकेवलज्ञानं द्विविध प्रज्ञप्तम् , तद्यथा-प्रथमस5 मयसयोगिभवस्थकेवलज्ञानं च अप्रथमसमयसयोगिभवस्थकेवलज्ञानं च । तत्र प्रथमसमयः-तत्प्रथमतयोत्पत्तिसमय एव गृह्यते, न प्रथमोऽप्रथमः-द्वितीयादयः सर्व एव शैलेश्यवस्थाप्राप्तेरप्रथमसमया इति । अथवेत्यन्यथा प्रतिपाद्यते-"चरमसमये" त्यादि, तत्र चरमः-सयोगिकालान्त्यसमयः, न चरमोऽचरमः, प्रश्चानुपूा चरमादारभ्य सर्व एव केवलमाप्तेरचरमा इति । “से त" मित्यादि निगमनम् ॥
३७. से किं तं अजोगिभवत्थकेवलणाणं ? अजोगिभवत्थकेवलणाणं दुविहं पण्णत्तं, 10 तं जहा-पढमसमयअजोगिभवत्थकेवलणाणं च अपढमसमयअजोगिभवत्थकेवलणाणं च,
अहवा चरिमसमयअजोगिभवत्थकेवलणाणं च अचरिमसमयअजोगिभवत्थकेवलणाणं च । से तं अजोगिभवत्थकेवलणाणं ।।
३७. से किं तमित्यादि । अत्रापि शैलेश्यवस्थाभावि केवलज्ञानमधिकृत्यैवमेव भावनीयम् । अलं विस्तरेण । “से त"मित्यादि निगमनम् , तदेतद् भवस्थकेवलज्ञानम् ॥ 15 ३८. से कि तं सिद्धकेवलणाणं ? सिद्धकेवलणाणं दुविहं पण्णत्तं, तं जहा-अणंतरसिद्धकेवलणाणं च परंपरसिद्ध केवलणाणं च ।
३८. से किं तमित्यादि । अथ किं तत् सिद्धकेवलज्ञानम् ?, सिद्धकेवलज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथाअनन्तरसिद्धकेवलज्ञानं च परम्परसिद्धकेवलज्ञानं च । तत्र शैलेश्यवस्थापर्यन्तवर्तिसमयसमासादितसिद्धखस्य तस्मिन्नेव समये यत् केवलज्ञानं तदनन्तरसिद्धकेवलज्ञानम् । ततो द्वितीयादिसमयेष्वनन्तामप्यनागताद्धां परम्पर20 सिद्धकेवलज्ञानमिति ॥
___ ३९. से किं तं अणंतरसिद्धकेवलणाणं ? अणंतरसिद्ध केवलणाणं पण्णरसविहं पण्णत्तं, तं जहा-तित्थसिद्धा-१ अतित्थसिद्धा २ तित्थगरसिद्धा ३ अतित्थगरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ इथिलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९
णपुंसगलिंगसिद्धा १० सलिंगसिद्धा ११ अण्णलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा 25 १४ अणेगसिद्धा १५ । से तं अणंतरसिद्धकेवलणाणं। ,
३९. से किं तमित्यादि प्रश्नसूत्रस्य निर्वचनम्-अनन्तरसिद्धकेवलज्ञानं पञ्चदशविधं प्रज्ञप्तम् , सिद्धानामेवानन्तरभवगतोपाधिभेदेन पञ्चदशभेदभिन्नत्वात् । पञ्चदशभेदभिन्नतामेव दर्शयन्नाह-'तद्यथा-तीर्थसिद्धाः' इत्यादि । तत्र येनेह जीवा जन्म-जरा-मरणसलिलं मिथ्यादर्शना-ऽविरतिगम्भीरं विचित्रदुःखगणकरिमकरं रागद्वेषपवनप्रक्षोभितमनन्तसंसारसागरं तरन्ति तत् तीर्थमिति, तच्च यथावस्थितसकलजीवा-ऽजीवादिपदार्थप्ररूपकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org