________________
केवलज्ञानं तद्भेदाश्च]
श्रीदेववाचकविरचितं नन्दिसूत्रम् ।
अत्यन्तानवद्याऽन्याविज्ञातचरण करणक्रियाधारं अचिन्त्यशक्तिसमन्विताविसंवाद्युडुपकल्पं चतुस्त्रिंशदतिशयसमन्वितपरमगुरुप्रणीतं प्रवचनम् , एतच्च सङ्घः प्रथमगणधरो वा, तथा चोक्तम्-“तित्थं भंते तित्थं ? तित्थकरे तित्थं ?, गोयमा ! अरिहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवण्णो समणसंघो पढमगणहरो वा" [भग. श. २३. उ. ८ सू. ६८२] इत्यादि, ततश्च तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः १ । 'अतीर्थसिद्धाः' तीर्थान्तरसिद्धा इत्यर्थः, श्रूयते च-"जिणंतरे साहुवोच्छेओ" [आव. नि. गा. ३६५] त्ति, तत्रापि जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः 5 सिध्यन्त्येव; मरुदेविप्रभृतयो वाऽतीर्थसिद्धाः, तदा तीर्थस्यानुत्पन्नत्वात् २ । 'तीर्थकरसिद्धाः' तीर्थकरा एव ३। 'अतीर्थकरसिद्धाः' अन्ये सामान्यकेवलिनः ४ । स्वयं बुद्धाः सन्तो ये सिद्धास्ते स्वयम्बुद्धसिद्धाः५। प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धा इति ६ ।
अथ स्वयम्बुद्ध-प्रत्येकबुद्धयोः कः प्रतिविशेषः ? इति, उच्यते, बोध्युपधि-श्रुत-लिङ्गकृतो विशेषः । तथाहिस्वयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, प्रत्येकबुद्धास्तु न तद्विरहेण । श्रूयते च बाह्यदृषभादिप्रत्ययसापेक्षा करक- 10 ण्ड्वादीनां प्रत्येकबुद्धानां बोधिरिति । उपधिस्तु स्वयम्बुद्धानां द्वादशविधः पात्रादिः, प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्जः । स्वयम्बुद्धानां पूर्वाधीतश्रुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव । लिङ्गप्रतिपत्तिः स्वयम्बुद्धानामाचार्यसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छतीत्यलं विस्तरेण ।
___ 'बुद्धबोधितसिद्धाः' बुद्धाः-आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्त इह गृह्यन्ते ७ । एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः ८ केचित् पुल्लिङ्गसिद्धाः ९ केचिन्नपुंसकलिङ्गसिद्धा १० इति । आह-तीर्थकरा अपि स्त्रीलि- 15 गसिद्धा भवन्ति ?, भवन्तीत्याह, यत उक्तं सिद्धप्रामृते-"सबथोवा तित्थगरीसिद्धा, तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा, तित्थगरितित्थे णोतित्थगरिसिद्धाओ संखेजगुणाओ, तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा" [गा. १०० वृत्तौ] इति, न तु नपुंसकलिङ्गाः। प्रत्येकबुद्धास्तु पुल्लिङ्गा एव । 'स्वलिङ्गसिद्धाः' द्रव्यलिङ्गं प्रति रजोहरण-गोच्छकधारिणः ११ । 'अन्यलिङ्गसिद्धाः परिव्राजकादिलिङ्गे सिद्धाः १२ । गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः १३ । 'एकसिद्धाः' इति एकस्मिन् समये एक एव सिद्धः १४ । 'अणेगसिद्धाः' इति एकस्मिन् समये 20 यावद् अष्टशतं सिद्धम् । यत उक्तम्बत्तीसा १ अडयाला २ सट्ठी ३ बावत्तरी ४ य बोद्धव्या। चुलसीती ५ छन्नठई ६ दुरहिय ७ अठुत्तरसय ८ च ॥१॥
[बृहत्सं. गा. ३३३] अत्राऽऽह चोदकः-ननु सर्व एवैते भेदास्तीर्थसिद्धा-ऽतीर्थसिद्धभेदद्वयान्तर्भाविनः, तथाहि-तीर्थसिद्धा एव तीर्थकरसिद्धाः, अतीर्थकरसिद्धा अपि तीर्थसिद्धा वा स्युः अतीर्थसिद्धा वेति, एवं शेषेष्वपि भावनीयमिति, अत: 25 किमेभिः ? इति, अत्रोच्यते, अन्तर्भावे सत्यपि पूर्वभेदद्वयादेवोत्तरोत्तरभेदापतिपत्तेः, अज्ञातज्ञापनार्थं च भेदाभिधानमिति । “से त" मित्यादि निगमनम् ॥
४०. से किं तं परंपरसिद्ध केवलणाणं ? परंपरसिद्ध केवलणाणं अणेगविहं पण्णत्तं, तं जहा-अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाव दससमयसिद्धा संखेज्जसमयसिद्धा असंखेज्जसमयसिद्धा अणंतसमयसिद्धा, से तं परंपरसिद्ध केवलणाणं । 30 से तं सिद्धकेवलणाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org