________________
15
४० श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[ सू. ४१ ४०. से किं तं परंपर इत्यादि । न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः, परम्परसिद्धविशेषणप्रथमसमयवर्तिनः, सिद्धखद्वितीयसमयवर्तिन इत्यर्थः । व्यादिषु तु द्विसमयसिद्धादयः प्रोच्यन्ते । यद्वा सामान्येनाप्रथमसमयसिद्धा अभिधानविशेषतो द्विसमयादिसिद्धाभिधानमिति । शेषं प्रकटार्थ यावत्
४१. तं समासओ चउब्विहं पण्णत्तं, तं जहा-दव्वओ खेत्तओ कालओ भावओ। 5 तत्थ दव्वओ णं केवलणाणी सव्वदव्वाइं जाणइ पासइ। खेत्तओ णं केवलणाणी
सव्वं खेत्तं जाणइ पासइ। कालओ णं केवलणाणी सव्वं कालं जाणइ पासइ । भावओ णं केवलणाणी सव्वे भावे जाणइ पासइ ।
४१. तं समासतो इत्यादि । तदिति सामान्येन केवलज्ञानमभिगृह्यते । द्रव्यतः केवलज्ञानी 'सर्वद्रव्याणि' धर्मास्तिकायादीनि साक्षाजानाति पश्यति । क्षेत्रतः केवलज्ञानी 'सर्व क्षेत्रं' लोका-ऽलोकभेदभिन्नं साक्षाज्जानाति 10 पश्यति । [ग्रं. १००० ] इह च धर्मास्तिकायादिसर्वद्रव्यग्रहणे सत्यप्याकाशास्तिकायस्य क्षेत्रत्वेन रूढलाद् भेदे
नोपन्यासः । कालतः केवलज्ञानी 'सर्व कालं' अतीता-ऽनागत-वर्तमानभेदभिन्नं साज्ञाज्जानाति पश्यति । भावतः केवलज्ञानी 'सर्वान् ' जीवा-ऽजीवगतान् भावान् गति-कपायाद्यगुरुलघुलक्षणादीन् साक्षाज्जानाति पश्यति ॥
इह च केवलज्ञान-दर्शनोपयोगचिन्तायां क्रमोपयोगादौ सूरीणामनेकविधा विप्रतिपत्तिः, अतः सझेपतो विनेयजनानग्रहाय तत्पदर्शनं क्रियत इति । तत्र
केई भणंति, जुगवं जाणइ पासइ य केवली णियमा । अन्ने एगंतरिय इच्छंति सुओवदेसेणं ।।१।। अन्ने ण चेव वीसुं दंसणमिच्छंति जिणवरिंदस्स ।
जं चिय केवलनाणं तं चिय से दंसणं विति ॥२॥ [विशेषणवती गा. १५३-५४]
गाथाद्वयम् । अस्य व्याख्या-'केचन' सिद्धसेनाचार्यादयः भणंति । किम् ? 'युगपद्' एकस्मिन्नेव काले 20 जानाति पश्यति च । कः ? केवली, न त्वन्यः, 'नियमाद् ' नियमेन। 'अन्ये ' जिनभद्रगणिक्षमाश्रमणप्रभृतयः एकान्तरितं जानाति पश्यति चेत्येवमिच्छन्ति 'श्रुतोपदेशेन' यथाश्रुतागमानुसारेणेत्यर्थः । 'अन्ये तु' वृद्धाचार्याः 'न' नैव 'विष्वक् ' पृथक् तदर्शनमिच्छन्ति 'जिनवरेन्द्रस्य' केवलिन इत्यर्थः । किं तर्हि ?, यदेव केवलज्ञानं तदेव "से" तस्य केवलिनो दर्शनं ब्रुरते, क्षीणावरणस्य देशज्ञानाभावात् , केवलदर्शनाभावादिति भावना । अयं गाथाद्वयार्थः ॥१॥२॥ साम्प्रतं युगपदुपयोगवादिमतप्रदर्शनायाह
जं केवलाइं सादी-अपजवसियाई दो वि भणियाई।
ता विंति केइ, जुगवं जाणइ पासइ य सव्वन्नू ॥३॥ [विशेषणवती गा. १९३] यस्मात् केवलज्ञान-दर्शने साद्यपर्यवसिते द्वे अपि भणिते ततः ब्रुवते 'केचन' सिद्धसेनाचार्यादयः । किम् ? 'युगपद्' एकस्मिन् काले जानाति पश्यति च । कः ? सर्वज्ञ इति गाथार्थः ॥३॥
इहराऽऽदी-णिधणत्तं मिच्छाऽऽवरणक्खयो ति व जिणस्स । 30
इयरेतरावरणता अहवा निकारणावरणं ॥४॥ [विशेषणवती गा. १९४] १ केवलज्ञान-केवलदर्शनयुगपदुपयोगादिवादसङ्गता एता एव चतुर्विशतिगाथा: श्रीहरिभद्रसूरिपादैर्धर्मसङ्ग्रहण्यां गा. १३३६ तः १३५९ गाथात्वेनाऽऽदृताः सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org