________________
केवलज्ञान-दर्शनोपयोगभेदा-ऽभेदादिचर्चा] श्रीदेववाचकविरचितं नन्दिसूत्रम् ।
'इतरथा' अन्यथा 'आदि-निधनत्वं' सादि-पर्यवसानत्वम् , केवलज्ञान-दर्शनयोरुत्पत्त्यनन्तरमेव केवलज्ञानोपयोगकाले केवलदर्शनाभावात् , एवं केवलदर्शनोपयोगकालेऽपि केवलज्ञानाभावात् । तथा मिथ्याऽऽवरणक्षय इति वा जिनस्य, न ह्यपनीतावरणौ द्वौ प्रदीपौ क्रमेण प्रकाश्यं प्रकाशयत इत्यभिप्रायः । तथा इतरेतरावरणता, आवरणे क्षीणेऽप्यन्यतमभावे अन्यतमाभावादिति भावना । अथवा 'निष्कारणावरणम्' इति अकारणमेव अन्यतरोपयोगकालेऽन्यतरस्याऽऽवरणम् , तथा च सति सर्वदैव भावा-ऽभावप्रसङ्गः । तथा चोक्तम्नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥१॥
[प्रमाणवार्तिके ३-३४ ] इति गाथार्थः ॥४॥ तह य असव्वन्नुत्तं असव्वदरिसितणप्पसंगो य।
एगंतरोवओगे जिणस्स दोसा बहुविहीया ॥५॥ [विशेषणवती गा. १९५ ] व्याख्या-तथा च सति असर्वज्ञत्वमसर्वदर्शित्वप्रसङ्गश्च । पाक्षिकं वा असर्वज्ञत्वम्-यदा सर्वज्ञो न तदा 10 सर्वदर्शी, दर्शनोपयोगाभावात् । एवं यदा सर्वदर्शी न तदा सर्वज्ञः, ज्ञानोपयोगाभावात् । एवमेकान्तरोपयोगेऽभ्युपगम्यमाने सति 'जिनस्य' केवलिनो दोषा बहुविधा इति गाथार्थः ॥ ५॥ एवं परेणोक्ते सत्यागमवाद्याह
भण्णति, भिन्नमुहुत्तोवयोगकाले वि तो तिणाणिस्स ।
मिच्छा छावट्ठी सागरोवमाइं खओवसमो ॥६॥ [विशेषणवती गा. २०२] . व्याख्या-यदुक्तम् ‘इतरथाऽऽदि-निधनत्वम् इति तदसत्' इति दर्शयति-उपयोगा-ऽनुपयोगकालापेक्षयैव 15 साद्यपर्यवसितत्वात् केवलज्ञान-दर्शनयोरित्यभिप्रायः, न चानार्षमिदम् , कथम् ? भण्यते-अन्यथा हि भिन्नमुहूत्तोंपयोगकालेऽपि मत्यादीनां ततस्त्रिज्ञानिनः मिथ्या षट्पष्टिः सागरोपमाणि क्षयोपशमः, प्रतिपादितश्च सूत्रे, न च युगपदेव मत्याधुपयोगः; एवं क्षायिकोपयोगेऽपि भविष्यति, जीवस्वाभाव्यादिति गाथाभिप्रायः॥६॥ न च क्षयकार्येणावश्यमनवरतमेव भवितव्यमिति दर्शयन्नाह
अह ण वि एवं ता सुण, जहेव खीणंतराइओ अरहा। संते वि अंतरायक्खयम्मि पंचप्पगारम्मि ॥७॥ सततं न देति लहति व भुजति उवभुजई व सम्वन्नू ।
कजम्मि देति लभति व भुंजति व तहेव इहई पि ॥ ८॥ किञ्च-दितस्स लभंतस्स य भुंजंतस्स व जिणस्स एस गुणो।
खीणंतराइयत्ते जं से विग्धं न संभवइ ॥९॥ उवउत्तस्सेमेव य णाणम्मि व दंसणम्मि व जिणस्स ।
खीणावरणगुणोऽयं, जं कसिणं मुणइ पासइ वा ॥१०॥ [विशेषणवती गा. २०३-६ ] चो०-पासंतो वि न जाणइ, जाणं व ण पासती जइ जिणिंदो।
एवं न कदाइ बि सो सव्वन्नू सव्वदरिसी य ॥११॥ [ विशेषणवती गा. २१५ ] व्याख्या-पश्यन्नपि न जानाति जानन् वा न पश्यति यदि जिनेन्द्रः, एवं न कदाचिदप्यसौ सर्वज्ञः सर्वदर्शी 30 च, युगपदन्यतरोपयोगकालेऽन्यतरोपयोगाभावादिति गाथार्थः ॥ ११ ॥ सिद्धान्तवाद्याहटी०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org