Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 61
________________ श्रीहरिभद्रसूरि सूत्रितया वृत्त्या समलङ्कृतं क्रियापरिसमाप्तिः । आत्मनः शरीरेन्द्रिय- प्राणापान - वाड्-मनोयोग्यदलिकद्रव्याहरणक्रियापरिसमाप्तिराहारपर्याप्तिः १। गृहीतस्य शरीरतया संस्थापनक्रियापरिसमाप्तिः शरीरपर्याप्तिः, संस्थानरचनाघटनमित्यर्थः २ । त्वगादीन्द्रियनिर्वर्त्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः ३ । प्राणापानक्रियायोग्यद्रव्यग्रहणशक्तिनिर्वर्त्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः ४ । भाषायोग्यद्रव्यग्रहण- निसर्गशक्तिनिर्वर्त्तनक्रियापरिसमाप्तिः भाषापर्याप्तिः ५। मनस्त्वयोग्य5 द्रव्यग्रहण-निसर्गशक्तिनिर्वर्त्तनक्रियापरिसमाप्तिर्मनःपर्याप्तिरित्येके । आसां युगपदारब्धानामपि क्रमेण परिसमाप्तिः, उत्तरोत्तरसूक्ष्मतरत्वात् । अत्र चाऽऽद्याश्वतस्र एकेन्द्रियाणाम्, पञ्च विकलेन्द्रियाणाम्, षट् संज्ञिनाम् । उक्तं चआहार सरीरिंदिय पज्जत्ती आणुपाण भास मणे । चत्तारि पंच छप्पिय एगिंदिय - विगल-सन्नीणं ॥१॥ [ बृहत्सं. गा. ३४९] तत्र पर्याप्तकनामकर्मोदयाद् निष्पद्यमाननिष्पन्नपर्याप्तिमन्तः पर्याप्ताः, “अर्शआदिभ्यः ” [पा. ५-२-१२७] 10 इत्यच् मत्वर्थीयः, त एव पर्याप्तकाः । एवमपर्याप्त कनामकर्मोदयादनिष्पन्नपर्याप्तियोगादपर्याप्ताः, त एवापर्याप्तका इति । सम्यग् - अविपरीता दृष्टिर्येषां ते तथा । मिथ्या - विपरीता दृष्टिर्येषां ते तथा । सम्यग्मिथ्यादृष्टयस्तु प्रतिपत्त्यभिमुखा अन्तर्मुहूर्तमात्रं भवन्ति, न तु परित्यागाभिमुखाः । यत उक्तम् मिच्छत्ता संकंती अविरुद्धा होइ सम्म-मीसेसु । मीसाओ वा दोसु वि, सम्मा मिच्छं, न पुण मीसं ॥ १ ॥ [ कल्पभा. गा. ११४] ३४ 15 संयताः - सकलचारित्रिणः । असंयताः -अविरतसम्यग्दृष्टयः । संयतासंयताः - देशविरतिमन्तः श्रावकाः । प्रमत्तसंयताः - गच्छवासिनः, कचिदनुपयोगसम्भवात् । अप्रमत्तसंयतास्तु-जिनकल्पिकादयः, सततोपयोगात् ; अथवा गच्छवासिनः तन्निर्गताश्च परिणामविशेषतः प्रमत्ताश्चाप्रमत्ताश्चावगन्तव्या इति । आमपौषध्यादिलब्धिलक्षणा ऋद्धयः, तासामन्यतरप्राप्तियोगात् प्राप्तर्द्धयः अवधिऋद्धिभावाद्वा । अन्ये त्ववधिऋद्धौ नियममभिदधति । इह च सर्वत्रैव मनुष्यादिषु विधाने सत्यर्थतो गम्यमानस्यापि विपक्षनिषेधस्याभिधानमव्युत्पन्नविनेयजनानुग्रहार्थम दुष्टमेवेति । 20 तथाहि - सर्व पार्षदं हीदं शास्त्रम्, त्रिविधाश्च विनेया भवन्ति, तद्यथा उद्घटितज्ञाः १ मध्यमबुद्धयः २ प्रपञ्चधिय३ श्वेत्यलं विस्तरेण । स्थितमेतत् - प्राप्तद्धर्यप्रमत्तसंयतानामुत्पद्यते ॥ [ सू. ३१-३२ ३१. तं च दुविहं उप्पज्जइ, तं जहा - उज्जुमती य विउलमती य । ३१. एतच्चोत्पद्यमानं द्विधोत्पद्यते, तद्यथा - ऋजुमतिश्च विपुलमतिश्च । मननं मतिः, संवेदनमित्यर्थः, ऋज्वी - सामान्यग्राहिणी मतिः ऋजुमतिः, 'घटोऽनेन चिन्तित ः' इत्यध्यवसायनिबन्धनमनोद्रव्यप्रतिपत्तिरित्यर्थः । 25 एवं विपुला - विशेषग्राहिणी मतिर्विपुलमतिः, 'घटोऽनेन चिन्तितः, स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महान् ' इत्याद्यध्यवसायहेतुभूतमनोद्रव्यविज्ञप्तिरिति भावार्थः । अस्यां व्युत्पत्तौ स्वतन्त्रं ज्ञानमेव गृह्यत इति । अथवा ऋज्वीसामान्यग्राहिणी मतिरस्य सोऽयं ऋजुमतिः, तद्वानेव गृह्यते । एवं विपुला - विशेषग्राहिणी मतिरस्येति विपुलमतिः, तद्वानेव । भावार्थः प्राग्वद्, उत्तरत्र वा वक्ष्यामः ॥ ३२. तं समासओ चउव्विहं पण्णत्तं तं जहा - दव्वओ खेत्तओ कालओ भावओ । 30 तत्थ दव्वओ णं उज्जुमती अनंते अणतपदेसिए खंधे जाणइ पासइ, ते चेव विउलमती १ दोणि वि, ण उ सम्मा परिणमे मीसं इति कल्पभाष्ये ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248