________________
श्रीहरिभद्रसूरि सूत्रितया वृत्त्या समलङ्कृतं
क्रियापरिसमाप्तिः । आत्मनः शरीरेन्द्रिय- प्राणापान - वाड्-मनोयोग्यदलिकद्रव्याहरणक्रियापरिसमाप्तिराहारपर्याप्तिः १। गृहीतस्य शरीरतया संस्थापनक्रियापरिसमाप्तिः शरीरपर्याप्तिः, संस्थानरचनाघटनमित्यर्थः २ । त्वगादीन्द्रियनिर्वर्त्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः ३ । प्राणापानक्रियायोग्यद्रव्यग्रहणशक्तिनिर्वर्त्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः ४ । भाषायोग्यद्रव्यग्रहण- निसर्गशक्तिनिर्वर्त्तनक्रियापरिसमाप्तिः भाषापर्याप्तिः ५। मनस्त्वयोग्य5 द्रव्यग्रहण-निसर्गशक्तिनिर्वर्त्तनक्रियापरिसमाप्तिर्मनःपर्याप्तिरित्येके । आसां युगपदारब्धानामपि क्रमेण परिसमाप्तिः, उत्तरोत्तरसूक्ष्मतरत्वात् । अत्र चाऽऽद्याश्वतस्र एकेन्द्रियाणाम्, पञ्च विकलेन्द्रियाणाम्, षट् संज्ञिनाम् । उक्तं चआहार सरीरिंदिय पज्जत्ती आणुपाण भास मणे । चत्तारि पंच छप्पिय एगिंदिय - विगल-सन्नीणं ॥१॥ [ बृहत्सं. गा. ३४९]
तत्र पर्याप्तकनामकर्मोदयाद् निष्पद्यमाननिष्पन्नपर्याप्तिमन्तः पर्याप्ताः, “अर्शआदिभ्यः ” [पा. ५-२-१२७] 10 इत्यच् मत्वर्थीयः, त एव पर्याप्तकाः । एवमपर्याप्त कनामकर्मोदयादनिष्पन्नपर्याप्तियोगादपर्याप्ताः, त एवापर्याप्तका इति । सम्यग् - अविपरीता दृष्टिर्येषां ते तथा । मिथ्या - विपरीता दृष्टिर्येषां ते तथा । सम्यग्मिथ्यादृष्टयस्तु प्रतिपत्त्यभिमुखा अन्तर्मुहूर्तमात्रं भवन्ति, न तु परित्यागाभिमुखाः । यत उक्तम्
मिच्छत्ता संकंती अविरुद्धा होइ सम्म-मीसेसु । मीसाओ वा दोसु वि, सम्मा मिच्छं, न पुण मीसं ॥ १ ॥ [ कल्पभा. गा. ११४]
३४
15
संयताः - सकलचारित्रिणः । असंयताः -अविरतसम्यग्दृष्टयः । संयतासंयताः - देशविरतिमन्तः श्रावकाः । प्रमत्तसंयताः - गच्छवासिनः, कचिदनुपयोगसम्भवात् । अप्रमत्तसंयतास्तु-जिनकल्पिकादयः, सततोपयोगात् ; अथवा गच्छवासिनः तन्निर्गताश्च परिणामविशेषतः प्रमत्ताश्चाप्रमत्ताश्चावगन्तव्या इति । आमपौषध्यादिलब्धिलक्षणा ऋद्धयः, तासामन्यतरप्राप्तियोगात् प्राप्तर्द्धयः अवधिऋद्धिभावाद्वा । अन्ये त्ववधिऋद्धौ नियममभिदधति । इह च सर्वत्रैव मनुष्यादिषु विधाने सत्यर्थतो गम्यमानस्यापि विपक्षनिषेधस्याभिधानमव्युत्पन्नविनेयजनानुग्रहार्थम दुष्टमेवेति । 20 तथाहि - सर्व पार्षदं हीदं शास्त्रम्, त्रिविधाश्च विनेया भवन्ति, तद्यथा उद्घटितज्ञाः १ मध्यमबुद्धयः २ प्रपञ्चधिय३ श्वेत्यलं विस्तरेण । स्थितमेतत् - प्राप्तद्धर्यप्रमत्तसंयतानामुत्पद्यते ॥
[ सू. ३१-३२
३१. तं च दुविहं उप्पज्जइ, तं जहा - उज्जुमती य विउलमती य ।
३१. एतच्चोत्पद्यमानं द्विधोत्पद्यते, तद्यथा - ऋजुमतिश्च विपुलमतिश्च । मननं मतिः, संवेदनमित्यर्थः, ऋज्वी - सामान्यग्राहिणी मतिः ऋजुमतिः, 'घटोऽनेन चिन्तित ः' इत्यध्यवसायनिबन्धनमनोद्रव्यप्रतिपत्तिरित्यर्थः । 25 एवं विपुला - विशेषग्राहिणी मतिर्विपुलमतिः, 'घटोऽनेन चिन्तितः, स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महान् ' इत्याद्यध्यवसायहेतुभूतमनोद्रव्यविज्ञप्तिरिति भावार्थः । अस्यां व्युत्पत्तौ स्वतन्त्रं ज्ञानमेव गृह्यत इति । अथवा ऋज्वीसामान्यग्राहिणी मतिरस्य सोऽयं ऋजुमतिः, तद्वानेव गृह्यते । एवं विपुला - विशेषग्राहिणी मतिरस्येति विपुलमतिः, तद्वानेव । भावार्थः प्राग्वद्, उत्तरत्र वा वक्ष्यामः ॥
३२. तं समासओ चउव्विहं पण्णत्तं तं जहा - दव्वओ खेत्तओ कालओ भावओ । 30 तत्थ दव्वओ णं उज्जुमती अनंते अणतपदेसिए खंधे जाणइ पासइ, ते चेव विउलमती
१ दोणि वि, ण उ सम्मा परिणमे मीसं इति कल्पभाष्ये ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org