________________
मनःपर्यवज्ञानं तत्स्वामी च] श्रीदेववाचकविरचितं नन्दिसूत्रम् ।
३३ संखेज्जवासाउयकम्मभूमगगब्भवतियमणुस्साणं अणिड्डिपत्तअपमत्तसंजयसम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगगम्भवकंतियमणुस्साणं ? गोयमा ! इड्डिपत्तअपमत्तसंजयसम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगगम्भवतियमणुस्साणं, णो अणिड्डिपत्तअपमत्तसंजयसम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगगब्भवतियमणुस्साणं मणपज्जवणाणं समुप्पज्जा ।
३०. से किं तं मणपजवणाणमित्यादि । अथ किं तद् मनःपर्यायज्ञानम् ?, इदं प्राग्निरूपितशब्दार्थमेव । साम्प्रतमुत्पत्ति-स्वामिमार्गणाद्वारेण चिन्त्यते । तथा चाह-"मणपज्जवणाणे णं भंते" इत्यादि । मनःपर्यायज्ञानं "ण"मिति वाक्यालङ्कारे, 'भदन्त !" इति गुर्वामन्त्रणम् , 'किम्' इति परिप्रश्ने, मनुष्याणामुत्पद्यत इति प्रकटाथम् , अमनुष्याणामुत्पद्यत इति । अमनुष्याः-देवादयः । अत्रेदं निर्वचनम्-"गौतम! मणुस्साण"मित्यादि किमिदं अकाण्ड एव गौतमामन्त्रणम् ? ननु देववाचकरचितोऽयं ग्रन्थ इत्युच्यते, सत्यम् , किन्त्वेते पूर्वसूत्रालापका 10 एवार्थवशाद् विरचिताः, “जावइया तिसमयाहारगस्से" [आव. नि. गा. ३० ] त्यादिनियुक्तिगाथासूत्रबद् इत्यतो न दोषः, तत्र च गौतमप्रश्न-भगवन्निवचनरूप एव ग्रन्थ इति । पुनरप्याह-ननु गौतमोऽपि सूत्रतः प्रवचनप्रणेतृखात् चतुदेशपूर्वधरखात् सकलप्रज्ञापनीयभावपरिज्ञानयुक्तखात् सर्वज्ञकल्प एव, उक्तं चसंखातीते वि भवे साहइ जं वा परो उ पुच्छेज्जा । ण य णं अणाइसेसी वियाणई एस छउमत्थो ॥१॥
[आव. नि. गा. ५९०] 15 ततः किमर्थ पृच्छति ?, अत्रोच्यते, कुतश्चिदभिप्रायात् , जानान एव स्वशिष्येभ्यो वा प्ररूप्य तत्सम्पत्ययनिमित्तम् , सूत्ररचनाकल्पतो वेति न दोषः, कृतं प्रसङ्गेन । प्रकृतं प्रस्तुमः—गौतमेन पृष्टो भगवानाह-गौतम ! मनुष्याणामुत्पद्यते, नान्येषाम् , विशिष्टचारित्रप्रतिपत्त्यभावात् । एवमन्यत्रापि भावना कार्येति । सम्मूछिममनुष्या गर्भव्युत्क्रान्तिकमनुष्यवान्तादिसमुद्भवाः । उक्तं च—“कहि णं भंते ! सम्मुच्छिममणुस्सा सम्मुच्छंति ? गोयमा ! अंतोमणुस्सखेत्ते पणयालीसाए जोयणसयसहस्सेसु अड्ढाइज्जेसु दीव-समुद्देसु पनरससु कम्मभूमीसु 20 तीसाए अकम्मभूमीसु छप्पन्नाते अंतरदीवएसु गम्भवकंतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेसु वा पित्तेसु वा [पूएसु वा] सोणिएसु वा मुक्केमु वा सुक्कपोग्गलपरिसाडेसु वा विगय[जीव] कलेवरेसु वा थी-पुरिससंजोगेसु वा गामणिद्धमणेसु वा णगरणिद्धमणेसु वा सव्वेसु चेव असुइट्ठाणेसु वा, एत्थ णं सम्मुच्छिममणुस्सा सम्मुच्छंति अंगुलस्स असंखेज्जइभागमेत्तीए ओगाहणाए असन्नी मिच्छट्ठिी अन्नाणी सव्वाहिं पज्जत्तीहिं अपज्जत्तगा अंतोमुहुत्तद्धाउया चेव कालं करंति । [प्रज्ञा० पदं १ सूत्रं ३६ पत्रं ५०-१] भरताद्याः पञ्चदश 25 कर्मभूमयः। हैमवताद्यास्त्रिंशदकर्मभूमयः । त्रीणि योजनशतानि लवणजलधिजलमध्यमधिलक्ष्य हिमवच्छिखरिपादप्रतिष्ठिता एकोरुकाद्याः षट्पञ्चाशदन्तीपा भवन्ति । कर्मभूमौ जाताः कर्मभूमिजा इत्येवमक्षरगमनिका कार्या । सङ्ख्येयवर्पायुषः-पूर्वकोटयादिजीविनः । असङ्खयेयवर्षायुषः-पल्योपमादिजीविन इति ।
इह पर्याप्तिर्नाम-शक्तिः, सा च पुद्गलद्रव्योपचयादुत्पद्यते । सा पुनः षट्प्रकारा, तद्यथा-आहारपर्याप्तिः १ शरीरपर्याप्तिः २ इन्द्रियपर्याप्तिः ३ प्राणापानपर्याप्तिः ४ भाषापर्याप्तिः ५ मनःपर्याप्तिश्चेति ६। तत्र पर्याप्तिः- 30
१ 'पूर्वसूत्रालापकाः' ज्ञानप्रवादाख्यपूर्वसत्का आलापका इत्यर्थः ॥ टी०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org