Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 18
________________ मैथिलीकल्याणे मयावताररमणीयमेतदधुना मनांसि हरति प्रमदवनं विकासिसुकुमारचूतकलिकाकलापसुभगम् । नटी-अज्ज सुहु भणिों । अज्ज हि सो अइरा आरामो कअसोहयंव महुरससुहाए। सीदाए एदाए ओतिण्णवसंतलच्छीए ॥६॥ (नेपथ्ये) साधु अवितथवादिनी भूयाः । नटी-(श्रुत्वा सविस्मयं ) अत्थ किं एयं । सूत्रधारः-आर्ये एष खलु दाशरथिमिथिलेश्वरतनयापरिणयनौपयिकमन्विच्छन्नार्यानिगदितं साधुकारेण प्रतीच्छति । नटी-अंज किंवा तस्स अप्पणो अत्थे मए मत्तिअं। सूत्रधारः-आर्ये त्वया तावत् सोऽचिरात् आरामः कृतशोभयेव मधुरससुखया सीतया अवतीर्णवसंतलक्ष्म्या इति निगदितं । अनेन पुनः सः अपि राजा रामः कृतशोभ एव मधुरससुखया सीतया एतया अवतीर्णवसंतलक्ष्म्या इति गृहीतं । नटी-( सविस्मयं ) जुंजइ अहो उभअस्सवि अत्थस्स सदाणं अविसंवादो। सूत्रधारः-आर्ये इतस्तावदावां नेपथ्यशेषे प्रोत्सहावहे । नटी-जं अज्जो आणवेदि । (इति निष्कांतौ) इति प्रस्तावना। १ आर्य सुष्टु भणितं। अद्य हि-सः अचिरात् आरामः कृतशोभयेव मधुरससुखया। सोतया एतया अवतीर्णवसंतलक्ष्म्या २ अत्र किमेतत् । ३ आर्य किं वा तस्यात्मनोऽर्थे मया मंत्रितं । ४ युज्यते अहो उभयस्यापि अर्थस्य शब्दानामविसंवादः । ५ यदार्यः आज्ञापयति।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110