Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 72
________________ मैथिलीकल्याणे पुनः पुनर्वाचयति ( सोत्कंठमाकाशे लक्ष्यं बद्धा ) प्रिये जनकपुत्रि अलमलं परितापपरिश्रमैस्तननिपीड्य मनः सुमनस्समम् । स हि फलेदचिरात्कुसुमायुधो यदि भवेत् सफलं मम जीवितम् ॥ ४१ ॥ विदूषकः-किं' अवरं एत्थ विलंबिअदि अवलंविदं खु वअस्सेण तत्तहोदिं समस्सासेढुं । गंतव्वं । पंढः-( रामं प्रति )। यद्यपि गमिष्यति भवान् भवदागमनोत्सवप्रबोधाय । स्पंदितुमपि न क्षमते वामाक्ष्या वाममप्यक्षि ॥ ४२ ॥ विदूषकः--एंदं पि उद्दीवणं तत्तहोदो गमणं तराए। पंढः सख्याः किंबहुना त्वमेव शरणं किं चान्यदाकर्ण्यतां काले धीर विलंबसे किमपरां सोयं समीपस्तव । स्त्यायचंदनपंकपंकिलबिसव्यामुग्धमुक्तालता लीलानिर्भरविभ्रमस्तनभराभोगोपभोगोत्सवः ॥४३॥ रामः- (पंढं प्रति) ननु त्वदेकशरणोऽयं जनः तत्कथय किमत्रौपयिकं । पंढः-स्वामिन्नस्यैव माधवीवनस्य दक्षिणतः पुष्पवाटिकामुत्तरेण पाश्चात्येन प्रमदवनपक्षद्वारेण प्रविश्य प्रदोषसमयेव तमालवीथिकया निभृतं भवद्भिश्चंद्रकांताधारागृहमासादनीयम् । रामः-यदाह भवान् । १ किमपरमत्र विलंब्यतेऽत्रलंबितं खलु वयस्येन तत्रभवती समाश्वासितुं तव्यं । २ एतदपि उद्दीपनं तत्रभवतो गमनं त्वरायाः ।

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110