Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 87
________________ चतुर्थोऽङ्कः। प्रच्छायरम्यासु तमालवासयष्टिष्वसौ बर्हिगणः शयानः । ज्योत्स्नालवैः पल्लवरंध्रदृष्ट विभाव्यते मेचकवर्हभारः ॥ ७ ॥ विदूषकः--(निर्दिश्य ) अस्स एअं खु तं परूढकालखंभतारणरमणिजं धाराघरेअदुवार। रामः--(निर्वर्ण्य सस्पृहं) शीतः कपोलार्पणदानयोग्यचंद्रातपस्वच्छदुकूलवासी प्रियोरुसाम्याद्विददाति रंभा स्तंभो ममासौ परिरंभवांछाम् ॥ ८॥ विदूषकः--माँ तुवं उवमामेत्ते उक्कंठेहि उवमेअं चेअ दाणि लहसि । रामः--तथास्तु । विदूषकः--वअस्स दक्ख दाव जोहणीसवण्णं परिसाणुमेअं चंदअंतणिस्संदपादं । रामः-वयस्य सम्यगुपलक्षितं । तथाहि । चंद्रोपलानां शुचिचंद्रकांता निर्याणधारा गृहहर्म्यपृष्टात् । निष्यंदधारा स्रवती प्रणाल्या सुरस्रवंतीव हिमाचलायात् ॥९॥ विदूषकः-अहो से सिरिअं । १ वयस्य एतत्खलु तत् प्ररूढकदलिस्तंभतोरणरमणीयं धारागृहद्वारं। २ मा त्वमुपमामात्रे उत्कंठस्व उपमेयमेवेदानी लभसे । ३ वयस्य पश्य तावत् ज्योत्स्नासवणे स्पर्शानुमेयं चंद्रकांतनिष्यंदपादम् । ४ अहो अस्याः स्वैर्य ।

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110