Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 92
________________ मैथिलीकल्याणे रामः - नन्वयमहं ते परिजननिर्विशेषः संनिहितः । सीता - ( लज्जां नाटयति, अन्यतो गंतुमिच्छति ) रामः - हस्ते गृहीत्वा निवारयन् । चिरस्य कालस्य समागते जने तवाद्य विंबोष्ठि समागमोत्सुके । प्रसिद्धयुक्तं विनिगूहनं न ते सुनिर्दयं चंडि कुरूपगूहनम् ॥ १३ ॥ सीता - ( अवस्थोचितं नाटयति ) । रामः - ( आत्मगतं ) असाधारणरमणीयं खलु नववधूविहृतं । तथाहि । sa कथमपि परिरब्धा यात्यसौ पश्यतो मे मयि पुनरधरोष्ठं पातुकामे प्रसह्य । सकरुणमुपलाल्यं निर्दयं चाशु पेयं प्रथयति मुखमंतर्वाष्पजिह्माकुलाक्षम् ॥ १४ ॥ विनीता विदूषकश्च - ( सत्वरं प्रविश्योपसृत्य च ) आअच्छा एत्थ एक्का इत्थिआ ता किं करिढुं । विनीता - भट्टां तुम्हेहि एत्थ अंतरिदेहि होइव्वं । रामः - यथाह भवती । ( तथा तिष्ठतः ) ( प्रविश्य ) चेटी - जेदु भट्टिदारिआ । सीता - सहि कोमुँदिए कुदो आअच्छसि । १ आगच्छति अत्रैका स्त्री तस्मात्किं क्रियताम् । २ हे भर्तः युष्माभिरत्रातरितैर्भवितव्यं । ३ जयतु भर्तृदारिका । ४ सखि कौमुदिके कुत आगच्छसि ।

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110