________________
मैथिलीकल्याणे
रामः - नन्वयमहं ते परिजननिर्विशेषः संनिहितः । सीता - ( लज्जां नाटयति, अन्यतो गंतुमिच्छति ) रामः - हस्ते गृहीत्वा निवारयन् ।
चिरस्य कालस्य समागते जने तवाद्य विंबोष्ठि समागमोत्सुके । प्रसिद्धयुक्तं विनिगूहनं न ते सुनिर्दयं चंडि कुरूपगूहनम् ॥ १३ ॥ सीता - ( अवस्थोचितं नाटयति ) ।
रामः - ( आत्मगतं ) असाधारणरमणीयं खलु नववधूविहृतं ।
तथाहि ।
sa
कथमपि परिरब्धा यात्यसौ पश्यतो मे मयि पुनरधरोष्ठं पातुकामे प्रसह्य । सकरुणमुपलाल्यं निर्दयं चाशु पेयं
प्रथयति मुखमंतर्वाष्पजिह्माकुलाक्षम् ॥ १४ ॥
विनीता विदूषकश्च - ( सत्वरं प्रविश्योपसृत्य च ) आअच्छा एत्थ एक्का इत्थिआ ता किं करिढुं ।
विनीता - भट्टां तुम्हेहि एत्थ अंतरिदेहि होइव्वं ।
रामः - यथाह भवती ।
( तथा तिष्ठतः )
( प्रविश्य )
चेटी - जेदु भट्टिदारिआ ।
सीता - सहि कोमुँदिए कुदो आअच्छसि ।
१ आगच्छति अत्रैका स्त्री तस्मात्किं क्रियताम् । २ हे भर्तः युष्माभिरत्रातरितैर्भवितव्यं । ३ जयतु भर्तृदारिका । ४ सखि कौमुदिके कुत आगच्छसि ।