________________
चतुर्थोऽङ्कः ।
७७
सीता-(श्रुत्वा सखेदमिव ) हंत किं ताए इति मं विहत्थेइ । हजे किं दाणि एत्थ थीयदि ता गच्छम्ह अहव कहिं दाणि मए गच्छिअदि । ( मोहं नाटयति )।
कृतकरामः-( कर्ण दत्वा ) कथं स्त्रीजनसमाश्वासशब्दः । · रामः-( सहसोपसृत्य संज्ञया विनीतां विनिवार्य ) प्रिये समाश्वसिहि समाश्वसिहि।
सीता-(समाश्वास्य दृष्ट्वा च सहर्ष सलज्जं चात्मगतं ) केहं सरं चेअ परमत्थदो अज्जउत्तो । ( गंतुमिच्छति )। रामः-( हस्ते गृहीत्वा ) अयि मुग्धे ।
कृतव्यलीके प्रतिकूलया गिरा मयि त्वया कोपरसोनुभावितः। विकुंचितं भ्रूलतिकं तदीक्षणं
क्षिप स्मरस्येदमपश्चिमं शरम् ॥ १२ ॥ विनीता-(विलोक्य ) केहिं एअं वालचंदणतरुमूलालवालपरिपूरितवप्पं विलंघेइ चंदअंतदवपूरो जाव अण्णदो एअं पवदृमि ।
विदूषकः-होदि सिग्धं संविहेअं खु तं जाव वालासोअमूले पवट्टेदव्वं अहं पि दे सहाओ होमि ।
(निष्क्रांता विनीता विदूषकश्च ) सीता-केहं पिअसहिवि एक्काइणि मं परिच्चइअ गआ ।
१ हंत किं तयेति मां विहस्तयति । हंजे किमिदानीमत्र स्थीयते तस्माद्गच्छावः अथवा कस्मिन्निदानी गम्यते । २ कथं स्वयमेव परमार्थतः आर्यपुत्रः। ३ कथमेतं बालचंदनतरुमूलालवालपरिपूरितवत्रं विलंघयति चंद्रकांतद्रवपूरो यावदन्यतो एत. प्रवर्तयामि । ४ भवति शीघ्रं सविधेयं खलु तद्यावद्वालाशोकमूले प्रवर्तितव्यमहमपि ते सहायो भवामि । ५ कथं प्रियसखी मामेकाकिनी परित्यज्य गता।