________________
७६
मैथिलीकल्याणे
विदूषकः-केहं इमाए कुंभदासीए जोरिओ वअस्सस्स सिणिद्धं धीरो सरो उदारं च सत्तं । रामः-संगीतकविदग्धा हि प्रायो राजकुलपरिचिता स्त्रियः।
सीता--( आकाशे ) हेला विणीदे अविदिअभावे तस्सिं जणे कह ण लज्जेदि मे उक्कंठा । किं भणासि मा संतप्पिअ तंपि तुमं विअ उक्कंठं तं चेअ दक्खिस्सिस्सिति ।।
कृतकरामः-( आकाशे ) वयस्य गाायण किं ब्रवीषि कियद्वा तत्कालः प्रतिपालयितव्यः यस्मिन्नेष संतापः शाम्यति इति ( सस्मितं ) वयस्य न दुर्जातं ब्रूयतां । शरदुत्सुको न तृप्यति कलहंसः शरदि विप्रकृष्टायां सीतार्थिनोपि ननु मे न धृतिस्तस्यामदृष्टायां । । __ सीता-हला विणीदे किं भण्णसि दक्ख दाव एसो खु पुरदो भट्टा रामोत्ति तेण हि कियटुं मे चक्खू । ( दृष्ट्वा ) अम्हो अज्जउत्तो।
कृतकरामः- ( आकाशे ) वयस्य किं ब्रवीषि । इदमत्राश्चर्य यदपहस्तिताखिलशिशिरोपचारस्य भवतस्तत्रभवति शैशिर्यमापादयतीति ( सनिर्वेदं तूष्णीमास्ते )।
सीता--( आकाशे ) हेला किं भणासि किं दाणिं तुस्ससित्ति । कृतकरामः-( आकाशे ) वयस्य किं ब्रवीषि अपृष्टेनापि त्वया सीतां प्रजल्पतः कुतः खलु पृष्टेनापि न सीताप्रसंगे दीयते प्रत्युक्तिारोत ( सनिवदं ) किं तया ।
१ कथमनया कुंभदास्या चोरितो वयस्यस्य स्निग्धो धैर्यः स्वर उदारं च सत्त्वं । २ हला विनीते अविदितभावे तस्मिन् जने कथं न लजसे मे उत्कंठा । किं भणसि मा संतप्य तमपि त्वमिवोत्कंठमानमेव द्रक्ष्यसीति । ३ हला विनीते किं भणसि पश्य तावत् एष खलु पुरतः भर्ता राम इति तेन खलु कृतार्थ मे चक्षुः । ४ अहो आर्यपुत्रः । ५ हला किं भणसि किमिदानीं तुष्यसीति ।