Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 104
________________ ९० भैथिलीकल्याणे यस्य स्मृत्वापि सद्यश्चकितविगलितैः खेचराग्रेसराणां श्रांतं कांताकपोले लिखितुमपि करैस्सत्रपं पत्रभंगान् । तस्मिन्नारोप्य जीवां धनुषि नृपतयश्चापविद्याभियुक्ता लोकांतं लोककांतं निजमपि च यशः स्वैरमारोपयंतु ॥२८॥ लक्ष्मणः- ( पुरो विलोक्य ) अये कस्यचिद्वाहुशालिता नृपशार्दूलस्य । तथाहि । आरोप्याग्रप्रकोष्टात्कटकमशिथिलं गाढमाबद्धकक्षो मध्ये चाराप्य जानु क्षितिमपि चरणेनापरेणाधितिष्ठन् । आरोप्य ज्यां निवृत्तः कथमपि विकटं चापदंडस्य कोटे सौवाच्यःप्रकृत्या क इव हि विगुणः स्याद्गुणाधाननम्रः॥२९॥ जनकः- (निर्वर्ण्य ) अहो नु खल्वस्य धनुष्कस्थेमा । तथाहि । गुणव्ययाश्रया वृत्तिगौणेति विगणय्यताम् । स्थेयसा धनुषा वृत्तिरन्यद्भूतैव वर्तते ॥ ३० ॥ लक्ष्मणः-आर्य पश्य पश्य ।। कश्चित्पाप्य निरुद्यमो धनुरिदं दृष्ट्वा परो निस्पृहः स्पृष्ट्वान्योन्यवृत्पतदानि कतिचिद्विन्यस्य कोपि स्थितः। उद्धृत्याप्यमुचत्सहैवै गलता मानेन मानीतरः प्रोत्थायैव परः स्थितो नृपपशु वोत्थितः कश्चन ॥ ३१ ॥ विदूषकः--वअस्स किं अवरं सव्वहा तुइ सज्जे चेअ एअं सज्जं होइ धणु । लक्ष्मणः-आर्य किमपरं विलंब्यते । यावदिदानीं । आरोप्य मौर्वीमवरोप्य रूढान् मानगृहान्मानवतां नृपाणाम् । १ वयस्य किमपरं सर्वथा त्वयि सज्जे एव एतत् सज्यं भवति धनुः ।

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110