Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 97
________________ पंचमोऽङ्कः। अहं तु पुनरित्थं समर्थये । यस्य स्याद्वाहुरेकोप्यचलपरिवृढं मंदरं धर्तुमीशो यस्य भ्रूक्षेपमानं क्षिपति जगदरिक्षत्रवित्रासदक्षम् । रामेणारोप्यमाणं सभयमिव धनुस्तेन तत्स्यादधिज्य नोचेन स्यादधिज्यं ध्रुवमसहनसन्मानिभिर्वद्यमानैः॥८॥ (विलोक्य ) को पुनरिमौ । अन्योन्यमन्यूनमनोज्ञकांती सह प्रयांताविव पुष्पदंतौ। इंद्रप्रतींद्राविव चावतीर्थों नेत्रे इव द्वे जगतां त्रयस्य ॥९॥ (निरूप्य )। सोऽयं रामः समासन्नः सीतोद्वाहो रघूद्वहः। सोऽयं प्रतिनिधिः कांत्या लक्ष्मणः शशलक्षणः ॥१०॥ यावदिदानीमितस्तावदहं महाराजाय निर्वर्तितं नियोग निवेदयामि । (परिक्रम्य निष्क्रांतः) शुद्धविष्कंभः (ततः प्रविशति रामो लक्ष्मणश्च ) रामः-(सौत्सुक्यमात्मगतं ) अहो प्रिया हि नाम जनस्य संमोहिनी विद्या । मम हि। तद्विंबाधरपानमीप्सितमुखं गात्रं तदाश्लेषणं श्रोत्रे तद्वचनश्रुतौ व्यसनिते नेत्रे तदालोकने ।

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110