________________
चतुर्थोऽङ्कः।
प्रच्छायरम्यासु तमालवासयष्टिष्वसौ बर्हिगणः शयानः ।
ज्योत्स्नालवैः पल्लवरंध्रदृष्ट
विभाव्यते मेचकवर्हभारः ॥ ७ ॥ विदूषकः--(निर्दिश्य ) अस्स एअं खु तं परूढकालखंभतारणरमणिजं धाराघरेअदुवार। रामः--(निर्वर्ण्य सस्पृहं)
शीतः कपोलार्पणदानयोग्यचंद्रातपस्वच्छदुकूलवासी प्रियोरुसाम्याद्विददाति रंभा
स्तंभो ममासौ परिरंभवांछाम् ॥ ८॥ विदूषकः--माँ तुवं उवमामेत्ते उक्कंठेहि उवमेअं चेअ दाणि लहसि । रामः--तथास्तु । विदूषकः--वअस्स दक्ख दाव जोहणीसवण्णं परिसाणुमेअं चंदअंतणिस्संदपादं । रामः-वयस्य सम्यगुपलक्षितं । तथाहि ।
चंद्रोपलानां शुचिचंद्रकांता निर्याणधारा गृहहर्म्यपृष्टात् । निष्यंदधारा स्रवती प्रणाल्या
सुरस्रवंतीव हिमाचलायात् ॥९॥ विदूषकः-अहो से सिरिअं ।
१ वयस्य एतत्खलु तत् प्ररूढकदलिस्तंभतोरणरमणीयं धारागृहद्वारं। २ मा त्वमुपमामात्रे उत्कंठस्व उपमेयमेवेदानी लभसे । ३ वयस्य पश्य तावत् ज्योत्स्नासवणे स्पर्शानुमेयं चंद्रकांतनिष्यंदपादम् । ४ अहो अस्याः स्वैर्य ।