________________
७२
मैथिलीकल्याणे
__ रामः-( मदनावस्थां नाटयन् )। निःशेषानद्य यूयं पिवत विनिपतच्चंद्रपादांश्चकोरा हे राहो व्यात्तवक्रः सकलमपि गिल त्वं सुधासूतिबिम् । वातानाचूषतैनान्मलयजफणिनश्चंदनामोदसांद्रान गृहीत ज्या द्विरेफा मधुपृषितमुचः कौसुमान् कामबाणान्॥४॥
( विचिंत्य ) अलमनया केवलमशोधितमूलया बहिर्जल्पलीलया । तदिदानी मन्मथमेव मूलमनुशिष्मः । ( आकाशे लक्ष्यं बद्धा)
मनसिज विषयांस्तांस्त्वं मनस्विप्रणिधान् जहिहि न हि गुणस्ते तेषु संसर्ग एषः। न चरितमथवाहो तेऽन्यथा कर्तुमर्ह
भवति च मधुपानां यद्गणस्ते गुणाय ॥ ५॥ विदूषकः--वअस्स एवं पमदवणपच्छिमदुवारअं । रामः-यावत्प्रविशावः ।
(प्रविशतः) विदूषकः--अस्स णिव्विसेहि एअं जोण्हापूरतरंगं मं विअ सुहसिसिरपरिस्सं पओसाणिलं ।
तामिस्र एष पवनो विरहिजनोत्पातपांशुवृष्टिरिव ।
उत्फुल्लकैरवरजो धूसरितस्सत्त्वमपहरति ॥६॥ विदूषकः--वअस्स एसा खु सा तमालवीहिआ । रामः--(निर्वर्ण्य ) वयस्य पश्य । १ वयस्य तत्प्रमदवनपश्चिमद्वारं ।२ वयस्य निर्विश एतं ज्योत्स्नापूरतरंगं मामिव सुखिशशिरस्पर्श प्रदोषानिलं । ३ वयस्य एषा खलु सा तमालवीथिका ।