Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 71
________________ तृतीयोऽङ्कः। विदूषकः--ईरिसं तत्तहोदि पञ्चक्खं पेक्रवंतो सहिअण्णो एव्वं ताए सोअणिज्जो। रामः-समसुखदुःखो हि सखीजनः। पंढः--इत्थं खलु तस्याः सख्यः शोचंति । यथा । अंगेषु प्रतिबिंबितस्तव शशी संख्यामसौ लंघते ज्योत्स्नेयं तव दंतकुंदमुकुलच्छायाभिरामेडिता । निश्वासैस्तव वर्द्धिता सुरभयो वासंतिका वायवः कष्टं भो कथमित्थमत्रभवतीमाश्वासयामो वयम् ॥ ३८ ॥ विदूषकः--कहें अवत्थंतरं आरूढा तत्तहोदीए विरहावत्था । पंढः-( रामं प्रति)। अत्रालं बहु विमलप्य विरहावस्थोचितास्ताः कथाः कल्याणाभिनिवशिना कृतमिदं कार्य कृशांग्याः शृणु । संवृत्तौ कठिनेतरौ स्तनतटौ कांत्यावशिष्टं वपुः मध्यः क्वापि गतः प्रकोष्ठवलयं केयूरतामागतम् ॥ ३९ ॥ विदूषकः-कह दुस्सहं से उत्तं । रामः-अव्यपदेश्यां खलु दशामारोपिता सीता विरहिजनोत्पातधूमकेतुना मकरकेतुना। पंढः-तच्च पृष्टतो मामुपसृत्य निर्गच्छंत्या प्रियसख्या विनीतया मह्यमुनीतं । सरसहरिचंदनोदलिखितसंदेशवचनं केतकिकुसुमगर्भपत्रं दंतपत्रलीलापदेशेन मया समानीतं ( इति कर्णादादायोपनयति )। रामः-( सौत्सुक्यमादाय वाचयति)। दसणमेत्तंकुरिओ सल्लावहिं सदा अ पल्लविओ। पस्स सुहेण कुसुमिओ अपि णाम फलेज्जई कुसुमसरो ॥४०॥ . १ ईदृशीं तत्रभवतीं प्रत्यक्षं पश्यन् सखीजनः एवं तया शोचनीयः । २ कथमवस्थांतरमारूढा तत्रभवत्या विरहावस्था । ३ कथं दुःसहं अस्या वृत्तं ।

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110