________________
तृतीयोऽङ्कः।
विदूषकः--ईरिसं तत्तहोदि पञ्चक्खं पेक्रवंतो सहिअण्णो एव्वं ताए सोअणिज्जो।
रामः-समसुखदुःखो हि सखीजनः। पंढः--इत्थं खलु तस्याः सख्यः शोचंति । यथा ।
अंगेषु प्रतिबिंबितस्तव शशी संख्यामसौ लंघते ज्योत्स्नेयं तव दंतकुंदमुकुलच्छायाभिरामेडिता । निश्वासैस्तव वर्द्धिता सुरभयो वासंतिका वायवः
कष्टं भो कथमित्थमत्रभवतीमाश्वासयामो वयम् ॥ ३८ ॥ विदूषकः--कहें अवत्थंतरं आरूढा तत्तहोदीए विरहावत्था । पंढः-( रामं प्रति)।
अत्रालं बहु विमलप्य विरहावस्थोचितास्ताः कथाः कल्याणाभिनिवशिना कृतमिदं कार्य कृशांग्याः शृणु । संवृत्तौ कठिनेतरौ स्तनतटौ कांत्यावशिष्टं वपुः
मध्यः क्वापि गतः प्रकोष्ठवलयं केयूरतामागतम् ॥ ३९ ॥ विदूषकः-कह दुस्सहं से उत्तं ।
रामः-अव्यपदेश्यां खलु दशामारोपिता सीता विरहिजनोत्पातधूमकेतुना मकरकेतुना।
पंढः-तच्च पृष्टतो मामुपसृत्य निर्गच्छंत्या प्रियसख्या विनीतया मह्यमुनीतं । सरसहरिचंदनोदलिखितसंदेशवचनं केतकिकुसुमगर्भपत्रं दंतपत्रलीलापदेशेन मया समानीतं ( इति कर्णादादायोपनयति )।
रामः-( सौत्सुक्यमादाय वाचयति)। दसणमेत्तंकुरिओ सल्लावहिं सदा अ पल्लविओ। पस्स सुहेण कुसुमिओ अपि णाम फलेज्जई कुसुमसरो ॥४०॥
. १ ईदृशीं तत्रभवतीं प्रत्यक्षं पश्यन् सखीजनः एवं तया शोचनीयः । २ कथमवस्थांतरमारूढा तत्रभवत्या विरहावस्था । ३ कथं दुःसहं अस्या वृत्तं ।