________________
मैथिलीकल्याणे
पुनः पुनर्वाचयति ( सोत्कंठमाकाशे लक्ष्यं बद्धा ) प्रिये जनकपुत्रि
अलमलं परितापपरिश्रमैस्तननिपीड्य मनः सुमनस्समम् । स हि फलेदचिरात्कुसुमायुधो
यदि भवेत् सफलं मम जीवितम् ॥ ४१ ॥ विदूषकः-किं' अवरं एत्थ विलंबिअदि अवलंविदं खु वअस्सेण तत्तहोदिं समस्सासेढुं । गंतव्वं । पंढः-( रामं प्रति )। यद्यपि गमिष्यति भवान् भवदागमनोत्सवप्रबोधाय ।
स्पंदितुमपि न क्षमते वामाक्ष्या वाममप्यक्षि ॥ ४२ ॥ विदूषकः--एंदं पि उद्दीवणं तत्तहोदो गमणं तराए। पंढः
सख्याः किंबहुना त्वमेव शरणं किं चान्यदाकर्ण्यतां काले धीर विलंबसे किमपरां सोयं समीपस्तव । स्त्यायचंदनपंकपंकिलबिसव्यामुग्धमुक्तालता
लीलानिर्भरविभ्रमस्तनभराभोगोपभोगोत्सवः ॥४३॥ रामः- (पंढं प्रति) ननु त्वदेकशरणोऽयं जनः तत्कथय किमत्रौपयिकं । पंढः-स्वामिन्नस्यैव माधवीवनस्य दक्षिणतः पुष्पवाटिकामुत्तरेण पाश्चात्येन प्रमदवनपक्षद्वारेण प्रविश्य प्रदोषसमयेव तमालवीथिकया निभृतं भवद्भिश्चंद्रकांताधारागृहमासादनीयम् ।
रामः-यदाह भवान् ।
१ किमपरमत्र विलंब्यतेऽत्रलंबितं खलु वयस्येन तत्रभवती समाश्वासितुं तव्यं । २ एतदपि उद्दीपनं तत्रभवतो गमनं त्वरायाः ।