________________
तृतीयोऽङ्कः।
५९
विदूषकः-जुत्तं आचक्रिवअं अजेण दाणिं पउत्ता मज्झण्हसंझा अदिक्कामदि भोअणवेला ता जाव गच्छेम्मो।
रामः-यद्भवते रोचते। पंढः–यदाह भवान् ।
(सर्वे उत्तिष्ठति ) पंढः-(निर्वर्ण्य ) अहो निर्जडिमतया जर्जरितजगज्जडो जरडातपस्तपनः । अव हि।
क्षपितजलदावलेपे नभःस्थले धर्मदीधितौ तपति । धर्मजलमेव केवलमवशिष्ट निजले जगति ॥४४॥ रामःद्विरेफमिथुनं द्रुतं कमलिनीदलानामधः स्थितं भजति पंकजं रविकरैरसंतापितंम् । तमालतरुपादमूलमधिशेरते बर्हिणः पिपासुरुपसेवते मृगगणोपि धारागृहम् ॥ ४५ ॥
(निष्कांताः सर्वे ) इति श्रीभट्टगोविंदस्वामिनः सुनुना हस्तिमल्लेन विरचिते .. मैथिलीकल्याण नाम्नि नाटके तृतीयोऽङ्कः ॥ ३ ॥
. १. युक्तमाख्यातमार्येणेदानी पुनः प्रवृत्ता मध्याहसंध्यातिकामति भोजनवेला तस्माद्यावद्गच्छामः।