________________
मैथिलीकल्याणे
चतुर्थोऽङ्कः ॥४॥
(ततः प्रविशति चेटी) चेटी-(निर्वर्ण्य) अझो इमस्स सुहसेबिदामंदवाअत्थसीअलपदोसाणिलकअपरिरंभस्स पुणरुत्तविवड्तपुष्फाउहसंरंभस्स पदोसारंभस्स । दाणिं खु साअंतणधूविजंतकालाअरुधूवकसणा कसणकज्जलाधिवासिदे विअ कव्वुरे अंबरे उदअराअकरायखोदसम्माणिदा पडिवालेदि रोहिणीपडिं तिमिरच्छडच्छणीलकोसेअओगुंठिएण णातिपरिफुडलक्खिज्जंततारागणमोत्तहारा पुबदिसा । (विलोक्य) एसो अ दाणिं उदिओ णिरंतरुप्फुल्लरत्तकं
१. अहो अमुष्य सुखसेविता मंदवाता शीतलप्रदोषानिलकृतपरिरंभस्य पुनरुक्तविवृद्धपुष्पायुधसंरंभस्य प्रदोषारंभस्येदानी खलु सायंतनधूमायमानकालागुरुधूपकृष्ण कृष्णकजलाधिवासिते इव कर्बुरेम्बरे उदयरागकाश्मीरक्षोदसंमानिता प्रतिपालयति रोहिणीपतिं तिमिरच्छटाच्छनीलकौशेयावगुंठितेन नातिपरिस्फुटलक्ष्यतारागणमुक्तहारा पूर्वदिक्। २. एष चेदानीमुदितो निरंतरात्फुल्लरक्तकोलिकुसमस्तवकविभ्रमो विरहिजनधैर्यनिःशैलनिर्मोटनखंडाशनिसन्निभः विघटितमिथुनभानग्रहजनितरोषरंजितवचनमिव मन्मथस्य सजीकृत इवाधिकवाससौगंधिकमालाबंधज्योत्स्नामधुरसपानशौंडानां चकोरमिथुनानां प्रतिष्ठितनिजमुखकांतिलब्धशोभातिशय इव मणिदर्पणरीत्या अमृतमथनरभसभंगोत्थित इव मंदरगिरिशिखरस्थितसीकरविष्णुचडामणिकिरणवासनाद्वगुणशोणिमेव शेषफणिफणामंडलं । स्तनांशुका. पवारित एकस्तनायाः इतर इव कुंकुमपंकपकिलो स्तनः ज्योत्स्नावध्वः जलनिधितरंगविक्षिप्त इव प्रवालप्रभापाटलितः शंखः दिनकरविरहपरितापितायाः स्तनांगरागारुणित इव शिशिरोपचारकमलिनीपत्रं गगनलक्ष्म्याः हरिचंदनतिलकमिव निषधगिरिगजवरस्य क्रीडाकंदुक इव निशीथिनीकन्यकाया अनंगविजयाडिडिमपुष्करप्रवृत्तवर्तुलः पद्मनाभनाभिसरः प्ररूढमिव हेमपुष्करं कामुकजनमनोरथपरिवर्तनकस्यांगभूतः मकरध्वजविजयरथांगभूतः सिंधूरित इव ऐरावणकुंभः लावण्यरसविधानरत्नकुंभी अंभोजिनीशत्रुः । अद्य हि कमलोदरगृहाभ्यंतरनिर्गता मुद्रितकलहंसनपुररवा विष्कांतसारसरसना सीता प्रतिनवसमागमरसरसिका अभिसारयति तत्कालसमुदसंतं कुमुदाकरं लक्ष्मी।