________________
मैथिलीकल्याणे
रामः -- अहो अनीदृशं शिशिरकर्म । विदूष:- हो हद्धि कि अदो वरं पडिवज्जइ सहि । पंढः - इत्थं तु साख पुनरपि लपति । यथा ।
व ते प्रतिबिंबितं मरकतस्निग्धेम्बरे नो शशी दंता शुर्विशदैरपांगकिरणैर्मिश्री न चंद्रातपः । निःश्वासाः प्रसरति तापविषमा दीर्घ न मंदानिलाः कष्टं किं प्रति संप्रति प्रियसखि त्वं विक्लवा क्लाम्यसि ॥ ३५ ॥ रामः - समुचितोयमपलापः । सखिजनायत्तं खलु विरहिणीनां जीवितम् ।
५६
विदूषकः - क ख इत्थंभूदपि अप्पाणं समंसासेतं वअस्सं तत्तहोदी समासइसिदित्ति विस्ससेदुं ।
पंढः - एवमेतत् । ( रामं प्रति )
विरतस्त्वयि विश्वासः सख्याः शठ दुःसहोघनिःश्वासः ।
न कुतोपि समुच्छ्रासः कथय कथं तावदाश्वासः ॥ ३६ ॥ विदूषकः -- को वा तिस्से आसासो जइ सिसिरोवआरंपि पडिदेसइ । पंढः - न केवलं प्रतिद्वेष्टि इत्थं च सखीमनिच्छंतीं नियुक्ते । यथा ।
किं मामित्थमुपेक्ष्यसे सखि मुधा निर्व्याजमुत्थीयतां सद्यो मुद्रय कैरवाणि मधुपान् कुत्रापि विद्रापय । पाताले शशिनं निधेहि जलधौ ज्योत्स्नां समावर्जय स्कंधे बंधय गंधसिंधुरपदस्तंभेषु मंदानिलान् ॥ ३७ ॥
१ हा धिक् हाधिक् किमतः परं प्रतिपद्यते । २ कथं खलु इत्थंभूतमप्यात्मानं समाश्वासयंतं वयस्यं तत्रभवती समाश्वासतीति विश्वसितुं । ३ को वा तस्या आश्वासः यदि शिरोपचारमपि प्रति द्वेष्टि ।