________________
तृतीयोऽङ्कः।
षंढः-एवं सा मुग्धा सज्जीकृतशिशिरोपचारामपि सखीमुपालभते । यथा ।
यत्स्वेदांबुविनिग्रहाय सुतरां सजीकृतं मे त्वया खिद्यत्यद्य हि मां शुपादनिहितं तश्चंद्रकांतस्थलम् । तत्खेदप्रतिकारमस्य कुरु तैः कर्पूरचणैर्मुहुः शीतैः शीतलिकानिलैरपि सखि प्रागेव तद्वीजय ॥ ३२॥ रामः-अभिरूपोऽयमुपालंभः । विदूषकः-वैअस्स एआरिसिं तत्तहोदिं असमंसासेयंतो तुम खु एत्थ उपालंभं अरुहेसि। पंढः-न खल्वसावुपालब्धव्यः । परंतु प्रशंसितव्यः । ( रामं प्रति )
त्वं कल्याणिन् जगति कृतिनामेक एवाग्रगण्यः संतापानामपि च न भवान् भाजनं तद्विधानाम् । विष्टया दृष्टं न खलु भवता यत्पुरः शोकमूकं
सख्या वकं सततरुदिताकेकरोच्छूनचित्रम् ॥ ३३ ॥ रामः--( सस्मितं ) सखि साधु त्वमुपालंभविमुखासि । विदूषकः-ऐअरिसस्स संदावस्स कहं उवसमं करोतुं सहिअणो । पंढः-स्वयं पुनरसौ सखिकृतां शिशिरक्रियामसहमाना शिशिरसंविधानकमन्यदुपदिशति । यथा ।
मामैवं सखि किं पुनः पुनरपि व्यथैः कियाकौशलैः वक्ष्येहं शिशिरोपचारमपरं दत्तावधाना भव । चंद्रं स्नापय चंद्रकांतसलिलैश्चंद्रातपं चंदनक्षोदेन क्षिप वीजयार्द्रकदलीपत्रेण चैत्रानिलान् ॥ ३४॥
१ वयस्य एतादृशों तत्रभवतीमसमाश्वासयन् त्वं खलु अत्रोपालंभमर्हसि । २ एतादृशस्य संतापस्य कथमुपशमं करोतु सखीजनः ।