________________
मैथिलीकल्याणे
विदूषकः - केहें अतिमेत्तं किलंता मणोभवेण तत्तहोदी | पंढः - अयि भो रामदेव ।
किसलयलीलातरला विसवलयविलासकोमलच्छाया । सा कुसुमवाणवाणा सारेण सदा समाविद्धा ॥ ३० ॥ विदूषकः -- ( सविस्मयं ) वेअस्स एक्काए वाआए संकिअं पाउड भइ एस वाआकुसलो अदो एव्व खु संलप्पिअदि इत्थिआ पुरिसो अ । रामः -- ( सस्मितं ) साधूक्तं ।
विदूषकः - अज्झं पकिदं चेअ अणुसरिअदु ।
५४
पंढः - तथास्तु ।
विदूषकः किं वf वण्णिअदि दिट्ठा चेअ खु सा मए वअस्सदसा । जं एसरमणिज्जंपि कोइलकूचिदादि उव्वेअणिज्जं मुणेइ ।
पंढ: - युज्यत एतत् । इत्थमेव हि सा मन्मथार्ता सखीं प्रार्थयते तथा ।
मूकाशोकमवेक्ष्य मे प्रियसखी जाता स्वयं सारिका कर्तव्यं त्विदमेव संप्रति सखि प्राप्तं तवावश्यकम् । दत्वा विप्रलभस्व दाडिमफलं तं वावदूकं शुकं तूर्ण चोत्कुरु कोकिलानुपवनात्कोकूयमानानिमान् ॥ ३१ ॥ संभाव्यते एवैतत् ।
विदूषकः - आरिसं दसं अणुहवतीं तत्तहोदिं किं सिसिरोवआरेण पडिअवटुवेइ सहिअणो ।
१ कथमतिमात्रं क्लांता मनोभवेन तत्रभवती । २ वयस्य एकय । वाचा संस्कृतं प्राकृतं भणत्येष वाकुशलः अत एव खलु संलप्यते स्त्री पुरुषश्च । ३ आर्य प्रकृतिरेवानुश्रियतां । ४ किं वा वर्ण्यते दृष्टैवं खलु सा मया वयस्यदशा यदेष रमणीयमपि कोकिलकूजितादि उद्वेजनीयं जानाति । ५ एतादृशीं दशामनुभवतीं तत्रभवतीं किं शिशिरोपचारेण प्रत्यवस्थापयति सखीजनः ।