________________
तृतीयोऽङ्कः ।
अंगाकर्णय सा हि मन्मथशरासारैकलक्षीकृता नो मिथ्याकुरुते वचांसि विरहे बाला कवीनामपि । किं वा संप्रति कथ्यते बहुतरं यत्सत्यमत्रांतरे सर्वस्यापि सखीजनस्य भवतो नामैव नामाभवत् ॥ २७ ॥ विदूषकः — ऐकग्गचित्तदा खु वाअपि तह पवट्टावेदि । षंढः— न केवलं नाममात्रेण तस्याश्वेतोविपर्यासः । एवं च खल्वसौ सखीं वदति । यथा ।
५३
संकल्पैस्तु पुरः स्थितेन बहुशस्तं विप्रलब्धासि ते कांतेनेति शुचा निवारयसि मां प्रत्युत्थितां संप्रति । याचे त्वामयमंजलिः प्रियसखि प्रत्यागते वल्लभे साक्षादागतवानसाविति शनैः कर्णे तदा मे वद ॥ २८ ॥
रामः - अहो संकल्पानां दृढिमा ।
विदूषकः - उभयं खु विरहिआणं पिअजणसमाअमसोक्खं जणेई संकप्पा णिद्दा अ ।
पंढः - कुतः खलु तस्या निद्रागमः । एवं तु पुनर्निद्रार्थिनी सखीं व्याहरति यथा ।
निद्रायै प्रयते यथा पुरमहं त्वं चालिपार्श्वे स्थिता त्वं स्वमागतमार्यपुत्रमुचितं विज्ञाय विज्ञापय । स्वस्ति स्वागतमंग पश्य भवत कांतामिमामीदृशींतद्यावद्भवनादतः परमितस्त्वं धीरमागा इति ॥ २९ ॥ रामः – अहो संभावनीयमेतन्मौग्ध्यं ।
१ एकाप्रचित्तता खलु वाचमपि तथा प्रवर्तयति । २ उभयं खलु विरहवतीनां प्रियजनसमागमसौख्यं जनयति संकल्पा निद्रा च ।