________________
५२
मैथिलीकल्याणे
विदूषकः-अम्हो पुव्वं इत्थिा विअ मए संजप्पिअं वअस्सेण दाणिं पुरिसो विअ संभासदि।
रामः-वयस्य क एष ते प्राघूर्णकः। विदूषकः-एसो खु तुह सिसिरोवआरो। रामः-न खलु यथावज्जानामि । विदूषकः-एसो हुं तत्तहोदिए सीदाए तुए संजादुक्कंठाए पहिदा दुई। रामः-( सादरं ) आर्य स्वागतं इहोपविश्यतां । पंढः-यथाज्ञापयति स्वामी । रामः-वयस्य उपविश । विदूषकः-जं भवं भण्णाति ।
( सर्वे उपविशति) रामः-(पंढं प्रति) सखे प्रियावृत्तांतनिवेदनेन विध्यापय विरहवन्हेिं । पंढः-शृणोतु स्वामी ।
सख्यास्तावद्विरहविधुरं भावमाख्यातुकामः प्रेमाक्रांतं हृदयमपि ते तादृशं तर्कयामि। विलंभोऽयं मुखरयति मामंग तस्मादिदानी- .
मागंतव्यं त्वरिततरमित्येव विज्ञापयामि ॥ २६ ॥ विदूषकः-तेहवि कहेहि तत्तहोदीए अवत्थं । रामः-सखे कथ्यताम् । पंढः
१ अहो पूर्व स्त्रीव मया संजल्पितं वयस्येनेदानीं पुरुष इव संभाषयति । २ एष खलु तव शिशिरोपचारः । ३ एषा खलु तत्रभवत्या सतिया त्वयि संयोक्तमुत्कंठतया प्रिहता दूती। ४ यद्भवान् भणति । ५ तथापि कथय तत्र भवत्य अवस्थाम्।