Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 27
________________ प्रथमोऽङ्क | १३ विनीता - सव्वं एदं सोहणं वसंतदोलारोहणं आरुहंतो स पि एव्व केवलं ण दिस्सई । सख्यः— हेला सु भणिअं । सीता - ( लज्जां नाटयंती स्वगतं ) दुल्लहो खु सो कालो जस्सि पिओ जणो दस्सणपहं पावदि जदो सवणेकगोअरे अयोज्झाउरिए हि जणे चिरपरूढको ऊहलदुल्लुलिअं एअं मे हिअअं । विनीता — एवं च पुण अहं तक्केमि एदेण सोहणेण वसंतदोलारोहणेण समाराहिओ अइरेण इमिए दंसेदि पिअं वसंतोत्त । सख्यः-सैंहि एवं । रामः - - अहो वस्त्वन्तरसमवेता अपि गुणा युगपन्मयि संक्रामति । अस्या हि ――――― नेत्राभ्यां सह विभ्रमव्यतिकरं मद्येन सार्थक्रमं हारेण स्खलितं सहैव भजते कंपं कुचाभ्यां सह । स्रस्तं सामि सहस्तनांशुकदशाप्रांतेन चाकृष्यते चित्रं संप्रति दोलया सह पुनर्दोलायते मे मनः ॥ २५ ॥ विनीता - ( आकर्णे रज्जुमाक्षिपंती उच्चैर्गायति ) जा आरुहइ दाल कंतेवि वसंते । सीसंमि खुजुवईणं सा जोव्वणवईणं ॥ २६ ॥ १ सर्वमेतत् शोभनं वसंतदोलारोहणं आरोहतः स प्रिय एव केवलं न दृश्यते । २ सखि सुष्ठु भणितं । ३ दुर्लभः खलु स कालो यस्मिन् प्रियो जनो दर्शनपथ - प्राप्नोति यतः श्रवणैकगोचरेऽयोध्यापुय्यौ तस्मिन् जने चिरप्ररूढ कुतूहलदुर्ललितं एतन्मे हृदयं । ४ एवं च पुनरहं तर्कयामि एतेन शोभनेन वसंतदोलारोहणेन समाराधितेऽचिरेणैतस्याः दर्शयति प्रियं वसंत इति । ५ सखि एवं । ६ या आरोहृति दोलां कांतेनापि वसंते शीर्षे खलु युवतीनां सा यौवनवतीनां ।

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110