Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 39
________________ द्वितीयोऽङ्कः। wwwwww रामः-एवमेतत् इत्थं नाम प्रत्यक्षमपि कः पर्यालोचयेत् । विदूषकः-भवं । रामः-( सस्मितं ) कोऽन्यः । विदूषकः-णे कोवि। रामः-वयस्य अलमुपालभ्य अनात्मज्ञत्वमप्युपालंभोपक्रममेव मन्मथ व्यथायाः। विदूषकः-विसेसदो दाव वसंते। रामः-विशेषतो रामे इति च ब्रूहि । कुतः। शरसंधानचुम्बत्वं रामे रामासमुत्सुके। यथा कुसुमबाणस्य न तथाऽन्यत्र जातुचित् ॥ १४ ॥ विदूषकः-सब्बोवि खु कामुओ अप्पाणं एव्वं समत्थेदि । रामः-तथा वास्तु । विदूषकः-वेअस्स दक्ख दक्ख एसो खु महुबिंदुसिहरच्छटादूसरदाए सिसिरसमाअमसंकं जणेइदाणिं सहआरो । रामः-सम्यगुपलक्षितं । तथाहि । मधुरसपृषतप्रवर्षिणि सुखशिशिराः समुदीक्ष्य मंजरीः । शिशिरसमयशंकयाकुला न जहति कोटरमध्यकोकिलाः ॥१५॥ यावतान् प्रतिबोधयामि । त्यजत मधु सगंधाः कोकिला निर्विशंकं तरुविटपकुटीराभ्यन्तरावासभेदम् । भजत सहचरीभिः सार्थमेतानिदीनीमुपवनसहकारानुल्लसनमंजरीकान् ॥ १६ ॥ १ भवान् । २ न कोपि । ३ विशेषतस्तावद्वसंते। ४ सर्वोपि खलु कामुक आत्मानमेव समर्थयते । ५ वयस्य पश्य पश्यैष खलु मधुबिंदुसीकरच्छटाधूसरतया शिशिरसमागमशंकां जनयतीदानी सहकारः ।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110