Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
द्वितीयोऽङ्कः ।
२९
विदूषकः--ऐसो खु सो संतिकम्माणि भूदुप्पादो येण सिसिरोवआरो व्व संतापुत्थिए हेदू।
रामः-वयस्य यत्सत्यमसौ शिशिरोपचारः शिरोपचारस्तेन मे शिरोवेदनामापादयति । तथाहि ।
ऊष्मनिष्पादने सोष्मा स्वरमंगेष्वसौ मम ।
शैत्यापादनकृत्ये तु शीतला शीतलक्रिया ॥ २४ ॥ विदूषकः-सव्वं कअं सिसिरकम्मं जं जं मए जाणेअदि किं दाणि करिस्सं।
रामः--
किं किं दुःशिशिरक्रियाव्यतिकरैरायासयस्यधनः क्षोण्यां रूषय पुष्पतल्परचनां रंभादलं पारय । छित्वा विक्षिप दिक्षु मंच चुदुकैराच्छिद्य मुक्तागुणान्
हस्ताभ्यां चमदाननिर्दयमनाः मुग्धा मृणालीलताः॥२५॥ विदूषकः-साहु णियुत्तं सिसिरकम्मं वअस्स एआरिसंपि सिसिरकम्म ण दे सिसिरोवआरबुद्धिं जणेअत्ति अच्चाहिदं । रामः- (किंचिदात्मानमवस्थाप्य )
क्व विषयेषु विवेकसहं मनः स्मृतिविमोहजड़ाः क च कामिनः। वदसि मह्यमनात्मवते कथं
कथय तुभ्यमविप्लतचेतसे ॥ २६ ॥ विदूषकः-वअस्स किं अण्णं सिसिरकम्मं करिस्सं ।
१ एषः खलु स शांतिकर्मणि भूतोत्पातः येन शिशिरोपचारयेव संतापोत्पत्त्यै हेतुः । २ सर्व कृतं शिशिरकर्म यद्यद् मया ज्ञायते किमिदानीं करिष्ये । ३ साधुनियुक्त शिशिरकर्म वयस्यैतादृशमपि शिशिरकर्म न ते शिशिरोपचारबुद्धिं जनयतीत्यत्याहितं । ४ वयस्य किमन्यच्छिशिरकम करिष्ये ।

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110