Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 52
________________ मैथिलीकल्याणे विनीता - केहं अण्णहा गहीअं अम्हेहिं । रामः- - किंच | वचो यद्यपि निर्गच्छेन्मुग्धे स्वेच्छतरं मुखात् । रामो बहिश्चरान् प्राणान् कथं हित्वा विहस्तयेत् ॥ ३३ ॥ अथवा सुमहदनेनोपकृतमकाण्डकोपकारिणा मोढ्येन । कुतः । प्रणयादपि मानिन्या मानग्रह एव रोचते मह्यम् । ईर्ष्यायितमधुराणां येनाधिगमः कटाक्षाणाम् ॥ ३४ ॥ (नेपथ्ये ) ३८ अये प्राप्तः प्रदोषारंभः । यातो वासर एष शोषितजरत्कासारगर्तोदको मार्तंडस्य करैरकुंठितशिखैः साकं करीषंकषैः । ये प्रातः प्रबलायिताः प्रतिदिशं प्रत्यागताः पत्रिण स्ते कांतासहिता विशंति निलयान् प्राप्तः प्रदोषोत्सवः ॥ ३५ ॥ रामः - ( श्रुत्वा सखेदं ) इदं पुनर्मिथुनं प्रविघटते । विनीता - कहं उण वणपालआणं उग्घोसो भट्टिदारिए इदो गच्छम्म । सीता - ( आत्मगतं ) केवलं सरीरमेत्तेण । विनीता -- इदो इदो भट्टदारिए । ( परिक्रम्य निष्क्रांता सीता विनीता च ) राम: - ( सौत्सुक्यं ) कथमसौ न मुद्रयति कदाचिदभीप्सितफलावलेहिनोपि संकल्पयोनिः संकल्पान् । तथाहि- दैव सीता ननु दर्शनीया स्पृट्रैव सा स्पर्शसुशीतलांगी । १ कथमन्यथा गृहीतमावाभ्यां । २ निराकुर्यात् । ३ कथं पुनः वनपालकानामुद्घोष भर्तृदारिके इतो गच्छावः । ४ केवलं शरीरमात्रेण । ५ इत इतो भर्तृदारिके ।

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110