________________
मैथिलीकल्याणे
विनीता - केहं अण्णहा गहीअं अम्हेहिं ।
रामः- - किंच |
वचो यद्यपि निर्गच्छेन्मुग्धे स्वेच्छतरं मुखात् । रामो बहिश्चरान् प्राणान् कथं हित्वा विहस्तयेत् ॥ ३३ ॥ अथवा सुमहदनेनोपकृतमकाण्डकोपकारिणा मोढ्येन । कुतः । प्रणयादपि मानिन्या मानग्रह एव रोचते मह्यम् । ईर्ष्यायितमधुराणां येनाधिगमः कटाक्षाणाम् ॥ ३४ ॥ (नेपथ्ये )
३८
अये प्राप्तः प्रदोषारंभः ।
यातो वासर एष शोषितजरत्कासारगर्तोदको मार्तंडस्य करैरकुंठितशिखैः साकं करीषंकषैः ।
ये प्रातः प्रबलायिताः प्रतिदिशं प्रत्यागताः पत्रिण
स्ते कांतासहिता विशंति निलयान् प्राप्तः प्रदोषोत्सवः ॥ ३५ ॥ रामः - ( श्रुत्वा सखेदं ) इदं पुनर्मिथुनं प्रविघटते ।
विनीता - कहं उण वणपालआणं उग्घोसो भट्टिदारिए इदो गच्छम्म । सीता - ( आत्मगतं ) केवलं सरीरमेत्तेण । विनीता -- इदो इदो भट्टदारिए ।
( परिक्रम्य निष्क्रांता सीता विनीता च )
राम: - ( सौत्सुक्यं ) कथमसौ न मुद्रयति कदाचिदभीप्सितफलावलेहिनोपि संकल्पयोनिः संकल्पान् । तथाहि-
दैव सीता ननु दर्शनीया स्पृट्रैव सा स्पर्शसुशीतलांगी ।
१ कथमन्यथा गृहीतमावाभ्यां । २ निराकुर्यात् । ३ कथं पुनः वनपालकानामुद्घोष भर्तृदारिके इतो गच्छावः । ४ केवलं शरीरमात्रेण । ५ इत इतो भर्तृदारिके ।