________________
राम:
―
द्वितीयोऽङ्कः ।
इदं दरस्फुरदधरोष्ठपल्लवं भ्रुवौ समुन्नमयदनर्घ्यविभ्रमम् । मुखं रुषा कलुषविजिह्मलोचनं कुतस्त्वया सुमुखि पराङ्मुखीकृतम् ॥ ३१ ॥
सीता - (गंतुमिच्छति ) ।
विदूषकः- को दाणिं अदिक्कमो को एसो विओओ । रामः -- ( हस्तेन गृहीत्वा ) प्रिये क एष संरंभः ( सानुनयं ) कृतापराधः किमु दौर्विदग्ध्यादयं जनो दासजनादभिन्नः । यद्गतुकामासि समाश्वसद्भयो
ममाद्य विम्बोष्ठ मनोरथेभ्यः ॥ ३२ ॥
३७
विदूषकः - ( विनीतां प्रति) होदि किंणु ख तत्तहोदिए कोवकारणं । विनीता-सीथैविसअं पच्चत्तिं कुदो ण देस्सिसित्ति तुए भणिदे किं दाए इत्ति भणिअं सुणिअ अप्पाणं विहत्थिअं जाणंती किल एसा निव्विण्णा ।
रामः– (सस्मितं) कथं मयैवापराद्धं ( सीतां प्रति ) अयि मुग्धे किं तया दुखापफलोपलिप्सया दुर्ललितया प्रत्युक्त्येति खलु मया कथितं । विदूषकः - ( सहासं ) ॲम्हो अकालकोपणा अकारणकोपणा अ 'असहोदी |
सीता - ( आत्मगतं ) कैहं अण्णा मए कहिअं ।
१ क इदानीमतिक्रमः क एष वियोगः । २ भवति किं नु खलु तत्रभवत्याः कोपकारणं । ३ सीताविषयां प्रत्युक्तिं कुतो न दास्यसीति त्वया भणिते किं तयेति भणितं श्रुत्वात्मानं विहस्तितं जानंती किलैषा निर्विण्णा । ४ अहो अकाकोपना अकारणकोपना चात्रभवती । ५ कथमन्यथा मया कथितं ।