________________
मैथिलीकल्याणे
विनीता-( आत्मगतं ) कहं अतिमेत्तं विसण्णा भट्टिदारिआ । सीता--(सनिर्वेदं ) हलो एहि गच्छम्म अहव कहिं मए गच्छिअदि (इति मुह्यति) विनीता-( ससंभ्रमं ) समस्सिसिहि भट्टिदारिए समस्ससिहि ।
रामः-( कर्ण दत्वा ) कथं स्त्रीजनसमाश्वासनशब्दः ( उत्थाय ससंभ्रममुपसर्पति)
विदूषकः-( श्रुत्वा ससंभ्रमं ) अविहा अविहा किं एवं ( उपश्रुत्य दृष्ट्वा च ) वेअस्स एसा दे पाणवल्लहा ।
रामः-(दृष्ट्वा) कथं सीता (उपसृत्य) प्रिये समाश्वसिहि समाश्वसिहि। सीता-( शनैश्शनैः समाश्वसिति )। रामः-(निर्वर्ण्य )
उन्मील्य नेत्रे मदनेन सार्धमपांगशारीकृतकर्णपूरे। समाश्वसित्याननमायत्याक्ष्याः
समुच्छसत्पंकजकोशकांतिः॥ २९ ॥ किं च ।
नयनयुगसितमध्यं सितपर्यतं विभाति शबलाक्ष्याः । शितधारमंतरत्सक
ज्यैत्रं मदनस्य वज्रमिव ॥ ३०॥ सीता-( समाश्वास्य रामं दृष्ट्वा सरोषं मुखं परावर्तयति ।)
१ कथमतिमात्रं विषण्णा भर्तृदारिका । २ सखि एहि गच्छावोऽथवा कस्मिन् मया गम्यते। ३. समाश्वसिहि भर्तृदारिके समाश्वसिहि । ४ अविद अविद किमेतत् । ५ वयस्य एषा ते प्राणवल्लभा ।