Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
तृतीयोऽङ्कः।
४७
क्रीणाति पुष्पाणि युवा त्वया यस्सल्लापसौख्येन विलोभ्यमानः । पश्यामि तस्माच्च वरं स एव
क्रीणात्ययं त्वां कुसुमोपभागिनम् ॥ १३॥ किं ब्रवीषि प्रियसखि संभाव्यतामसौ चिकुरभरसमर्पणेन सौगंधिकमालेति सकोपं कथमसौ कट्टदा स्त्रियमिव मां कदर्थयति तत्किमनया । इतो वयं (परीक्ष्य विलोक्य च ) एतन्माधवीवनद्वारं यावत्प्रविशामि (प्रविश्य ) अनेन खलु मया भर्तृदारिका दौत्यावलंबिना कालातिपातप्रमादिना न भवितव्यं । कुतः।
सैषा संप्रति नैव तावदबलाकालातिपातक्षमा शांतं पापममंगलं प्रतिहतं तापः कथं कथ्यते । का वार्ता स्तनभारमध्यपतिते मुग्धे मृणालांकुरे
हारास्तत्क्षणमेव वक्षसि यदा नीलोत्पलश्यामलाः ॥१४॥ अपि च तस्याः खलु।
किसलयतल्पसमर्पित देहाया मदनदहनतप्तायाः।
हाराः स्वदेहनिहिता जनयंति स्फोटकाशंकाम् ॥१५॥ एतच्च नः संप्रति दूत्यै त्वरयति । अद्य हि ।
अस्माभिः शिशिरोपचारविधिना कृच्छात्समाश्वासिता संकल्पाहितकांतसंनिधिसुखा मोहावसाने पुनः।। सा बाला विवशा प्रवालशयनादुत्थाय सप्रश्रयं स्मेरा किंचिदधोमुखी सशनकैराकाशमलिंगति ॥ १६ ॥
(अन्यतो विलोक्य) कथमसौं माधवीवनपालिका गंधवती। भद्रे गंधवति विमुक्तमाधवीबनविहारसुखा किमिति द्वारोपांत एव वर्तसे । किं ब्रवीपि ।

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110