SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः। ४७ क्रीणाति पुष्पाणि युवा त्वया यस्सल्लापसौख्येन विलोभ्यमानः । पश्यामि तस्माच्च वरं स एव क्रीणात्ययं त्वां कुसुमोपभागिनम् ॥ १३॥ किं ब्रवीषि प्रियसखि संभाव्यतामसौ चिकुरभरसमर्पणेन सौगंधिकमालेति सकोपं कथमसौ कट्टदा स्त्रियमिव मां कदर्थयति तत्किमनया । इतो वयं (परीक्ष्य विलोक्य च ) एतन्माधवीवनद्वारं यावत्प्रविशामि (प्रविश्य ) अनेन खलु मया भर्तृदारिका दौत्यावलंबिना कालातिपातप्रमादिना न भवितव्यं । कुतः। सैषा संप्रति नैव तावदबलाकालातिपातक्षमा शांतं पापममंगलं प्रतिहतं तापः कथं कथ्यते । का वार्ता स्तनभारमध्यपतिते मुग्धे मृणालांकुरे हारास्तत्क्षणमेव वक्षसि यदा नीलोत्पलश्यामलाः ॥१४॥ अपि च तस्याः खलु। किसलयतल्पसमर्पित देहाया मदनदहनतप्तायाः। हाराः स्वदेहनिहिता जनयंति स्फोटकाशंकाम् ॥१५॥ एतच्च नः संप्रति दूत्यै त्वरयति । अद्य हि । अस्माभिः शिशिरोपचारविधिना कृच्छात्समाश्वासिता संकल्पाहितकांतसंनिधिसुखा मोहावसाने पुनः।। सा बाला विवशा प्रवालशयनादुत्थाय सप्रश्रयं स्मेरा किंचिदधोमुखी सशनकैराकाशमलिंगति ॥ १६ ॥ (अन्यतो विलोक्य) कथमसौं माधवीवनपालिका गंधवती। भद्रे गंधवति विमुक्तमाधवीबनविहारसुखा किमिति द्वारोपांत एव वर्तसे । किं ब्रवीपि ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy