SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । २९ विदूषकः--ऐसो खु सो संतिकम्माणि भूदुप्पादो येण सिसिरोवआरो व्व संतापुत्थिए हेदू। रामः-वयस्य यत्सत्यमसौ शिशिरोपचारः शिरोपचारस्तेन मे शिरोवेदनामापादयति । तथाहि । ऊष्मनिष्पादने सोष्मा स्वरमंगेष्वसौ मम । शैत्यापादनकृत्ये तु शीतला शीतलक्रिया ॥ २४ ॥ विदूषकः-सव्वं कअं सिसिरकम्मं जं जं मए जाणेअदि किं दाणि करिस्सं। रामः-- किं किं दुःशिशिरक्रियाव्यतिकरैरायासयस्यधनः क्षोण्यां रूषय पुष्पतल्परचनां रंभादलं पारय । छित्वा विक्षिप दिक्षु मंच चुदुकैराच्छिद्य मुक्तागुणान् हस्ताभ्यां चमदाननिर्दयमनाः मुग्धा मृणालीलताः॥२५॥ विदूषकः-साहु णियुत्तं सिसिरकम्मं वअस्स एआरिसंपि सिसिरकम्म ण दे सिसिरोवआरबुद्धिं जणेअत्ति अच्चाहिदं । रामः- (किंचिदात्मानमवस्थाप्य ) क्व विषयेषु विवेकसहं मनः स्मृतिविमोहजड़ाः क च कामिनः। वदसि मह्यमनात्मवते कथं कथय तुभ्यमविप्लतचेतसे ॥ २६ ॥ विदूषकः-वअस्स किं अण्णं सिसिरकम्मं करिस्सं । १ एषः खलु स शांतिकर्मणि भूतोत्पातः येन शिशिरोपचारयेव संतापोत्पत्त्यै हेतुः । २ सर्व कृतं शिशिरकर्म यद्यद् मया ज्ञायते किमिदानीं करिष्ये । ३ साधुनियुक्त शिशिरकर्म वयस्यैतादृशमपि शिशिरकर्म न ते शिशिरोपचारबुद्धिं जनयतीत्यत्याहितं । ४ वयस्य किमन्यच्छिशिरकम करिष्ये ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy