SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ . मैथिलीकल्याणे wwwwwwwwwwwwwws रामः-( सोपहासं ) साधूपदिष्टमौपयिकं । विदूषकः-यत्ति मे उपाअपरिण्णाणवैहवं । रामः-(मदनावस्थां नाटयन् ) रचय कुसुमैः शय्यां स्वैरं विवेष्टनदायिनी सरसकदलीपत्रप्रांतानिलैरुपवीजय। सबिसवलयान्मुक्ताहारान्मुहुर्मुहुरर्पयन् गुरुतरममुं संतापं मे वयस्य लघूकुरु ॥ २२ ॥ विदूषकः-वैअस्स एवं खु चूदविडपारूढाए माहविलदाए मलआणिलसंचालणपडिअकुसुमोक्करपवट्टिअपुप्फतप्पं मणिकुट्टिमं एदे अ सिसिरोवआरत्थं आमुक्का पूर्व चेव तुह मोत्ताहारा । दाणिं पुण पदुमिणीदो मुणालायि कअलीघरादो कअलीदलाई जाव आणेमि (निष्क्रम्य प्रविश्योपसृत्य च ) अम्मो एदे कअलीपत्तणिहित्तआ मुणाला सुमरावेंति म भोअणं । रामः-वयस्य साध्वानीतं यावच्छिशिरोपचारे प्रवर्तस्व । विदूषकः-जं वअस्सो आणवेदि । ( तथा करोति ) रामः--( सोगं) कृतं कृतमनन । समंतादंगं मे शयनकुसुमैस्तुद्यत इतः परं चैतच्चेतश्चलति कदलीपत्रमरुता । पतंतीतः प्लोषाद्विशिथिलगुणा मौक्तिकगुणाः विसैःसार्धं वक्षः क्वथति मम गाढव्यथमितः ॥ २३ ॥ १ एतावन्मे उपायपरिज्ञानवैभवं । २ वयस्य एतत् खलु चूतविटपारूढायाः माधवीलताया मलयानिलसंचालनपतितकुसुमोत्करप्रवर्तितपुष्पतल्पं मणिकुहिममेते च शिशिरोपचारार्थमामुक्ताः पूर्वमेव तव मुक्ताहाराः । इदानीं पुनः पद्मिन्याः मणालानि कदलीगृहात् कदलीदलानि यावदानयामि । ३ अहो एते कदलोपत्रनिहिता मृणाला स्मारयति मां भोजनं । ४ यद्वयस्य आज्ञापयति ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy