________________
द्वितीयोऽङ्कः।
२७
.
विदूषकः-वअस्स सवणादो अण्णं इत्थीअंणएहि मणं जत्थ हु मणं पअट्टिअं अक्खं वि स गहणादि ।
रामः-यथाह भवान् (परितो विलोकयन् सोद्वेगं ) वयस्य न तदपि सा स्थित्यै। पश्य ।
कलुषयति विकीर्णः कौसुमोऽयं परागो नयनयुगमिदं मे पश्यतो दृश्यमानः । तिरयति विचलंती मंजरी पल्लवानां
मदयति मधुवर्षी मन्मथं चैष चूतः ॥ १९॥ तदेतद्भवतोपि प्रतीकारचिंतामतिवर्तते । अथवा ।
एता नूतनचूतकोरकशिखास्ताः कृत निस्तंद्रितो येन स्यान्मलयानिलस्य सुमहान सौभाग्यदो हृतः। सद्यो मुद्रितकुंचिका च मदनज्या शृंगमाला भवेत्
क्षय्यः सोप निरायुधश्च भवति प्रायेण पुष्पायुधः ॥२०॥ अथवा मास्म तथा कृथाः येन मे प्रियाकर्णावतंसौचित्येन सहकारमंजरीषु सानुरागं मनः । विदूषकः-(सस्मितं) अण्णहा हि मए किल एदाओ कुदो विइण्णा। रामः-वयस्य किमत्र कर्तव्यं । विदूषकः-धीराँवलंबणं । रामः-वयस्य।
अवधीरितधैर्योहमधीराक्ष्या कृतस्तया ।
धैर्यशब्दार्थबोधोपि दूरे कास्यावलंबनम् ॥२१ ॥ विदूषकः-कि कादव्वदो दूसो चिटु । . १ वयस्य श्रवणादन्यां स्त्रियं नय मनः यत्र खलु मनः प्रवर्तितं अक्षमपि स्वयं गृह्णाति । २ अन्यथा हि मया किलैताः कुतो विदीर्णाः । ३ धैर्यावलंबनं । ४ किंकर्तव्यता दृष्यः तिष्ठ ।