________________
२६
मैथिलीकल्याणे
vvvvvvvAARAur
विदूषकः-अस्स इद एव्व उवविसम्म । रामः-यथा भवानाह।
[उपविशतः ] रामः-( स्पर्श रूपयित्वा) वयस्य कथमिवास्माभिरत्र क्षेमेण स्थीयते। इह हि
उद्भदोन्मुखकुड्मला विधुनुते वासंतिका मंजरीरागुंजन्मधुपांगनामुखारतप्रांतो वसंतानिलः। . क्रीडापद्मसरस्तरंगयति च खोलितांभोरुहः • सोयं मामुपलभ्य किं न कुरुते लब्धास्पदं चेद्धृशम् ॥१७॥ विदूषकः-अहो दुव्वहो मंमहो । रामः-(मदनावस्थां नाटयन् )
प्रियसख न शृणोषि त्वं किमतान शीघ्र श्रवणयुगमिदं मे गाढगाढं पिधेहि । इह खलु सहकारोद्यानभूमौ वसंतान
मदकलकलकंठी कंठनिष्कूजितानि ॥१८॥ विदूषकः-वैअस्स सव्वदो कूजतेसु कोइलेसु केति वा कालं पिहिअंति कण्णा।
रामः-यावज्जीवितं रक्षितव्यं । विदूषकः-अहं तेयत्थ उवाअं उवादिसिस्सं । रामः-किं सीतादर्शनोपायम् । विदूषकः-णहि णहि कोइलकूजिअसद्दादिवाहणुव्वाअं। रामः-कथमिव ।
१ वयस्य इत एवोपविशावः। २ अहो दुर्वहो मन्मथः । ३ वयस्य सर्वतः कूजत्सु कोकिलेषु कियंतं वा कालं पिधीयेते कौँ । ४ अहं तवैवोपायमुपदिशामि । ५ नहि नहि कोकिलकूजितशब्दातिवाहनोपायं ।