________________
मैथिलीकल्याणे
रामः-किं मां पुनः पुनः प्रजल्पैरुत्पीडयसि क इव जानाति शिशिरोपचारमितरच्च ।
विदूषकः-अस्स एसा दाणिं पञ्चाअआ एक्का दे अंतःकरणपउट्टि जाणइत्ति कहेमि ।
रामः- ( सहर्ष ) कासावेका ममान्तकप्रवृत्तिः जानकी । ( उत्थातुमिच्छति)।
विदूषकः-अस्स एव्वं खु मए उदीरिअं एसा दे पञ्चागआ एक्का जाणइ सिसिरोवआरं अंतःकरणपउट्टित्ति । रामः-कथमन्यथा चिंतितं अन्यथा परिणतं । वयस्य । याता मम तन्मयतामंतःकरणप्रवृत्तिरपि दूरे । प्रत्यागमिष्यति तु सा प्रत्यागच्छेत्प्रिया यदि सा ॥२७॥
(ततः प्रविशति सोत्कंठं सीता विनीता च) सीता-पिअसहि विणीदे कहिं एसा मे सीसवेअणा उवसमिस्सिदि । विनीता-जत्थ सो दिस्सइ । सीता-को। विनीता--जो दे इमाए हेदू । सीता--किं एसो मे अंगसंतावो। विनीता--जो तस्सवि हेदू सीताको वा तस्य हेदू विनीता-'जो तुए बद्धंजलिए अब्भत्थिओ । . १ वयस्यैषा इदानी प्रत्यागतैका ते अंतःकरणप्रवृत्तिं जानातीति कथयामि । २ वयस्य एवं खलु मयोदीरितमषा ते प्रत्यागता एका जानाति शिशिरोपचारमंतः करणप्रवृत्तिरिति । ३ प्रियसखि विनाते कस्मिन्नेषा मे शीर्षवेदनोपशामिष्यति । ४ यत्र स दृश्यते । ५ कः । ६ यस्ते अस्याः हेतुः । ७ किमेष मेऽङ्गसंतापः । ८ यस्तस्यापि हेतुः । ९ को वा तस्य हेतुः । १० यस्तया बद्धांजल्याभ्यर्थितः।