Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 44
________________ मैथिलीकल्याणे रामः-किं मां पुनः पुनः प्रजल्पैरुत्पीडयसि क इव जानाति शिशिरोपचारमितरच्च । विदूषकः-अस्स एसा दाणिं पञ्चाअआ एक्का दे अंतःकरणपउट्टि जाणइत्ति कहेमि । रामः- ( सहर्ष ) कासावेका ममान्तकप्रवृत्तिः जानकी । ( उत्थातुमिच्छति)। विदूषकः-अस्स एव्वं खु मए उदीरिअं एसा दे पञ्चागआ एक्का जाणइ सिसिरोवआरं अंतःकरणपउट्टित्ति । रामः-कथमन्यथा चिंतितं अन्यथा परिणतं । वयस्य । याता मम तन्मयतामंतःकरणप्रवृत्तिरपि दूरे । प्रत्यागमिष्यति तु सा प्रत्यागच्छेत्प्रिया यदि सा ॥२७॥ (ततः प्रविशति सोत्कंठं सीता विनीता च) सीता-पिअसहि विणीदे कहिं एसा मे सीसवेअणा उवसमिस्सिदि । विनीता-जत्थ सो दिस्सइ । सीता-को। विनीता--जो दे इमाए हेदू । सीता--किं एसो मे अंगसंतावो। विनीता--जो तस्सवि हेदू सीताको वा तस्य हेदू विनीता-'जो तुए बद्धंजलिए अब्भत्थिओ । . १ वयस्यैषा इदानी प्रत्यागतैका ते अंतःकरणप्रवृत्तिं जानातीति कथयामि । २ वयस्य एवं खलु मयोदीरितमषा ते प्रत्यागता एका जानाति शिशिरोपचारमंतः करणप्रवृत्तिरिति । ३ प्रियसखि विनाते कस्मिन्नेषा मे शीर्षवेदनोपशामिष्यति । ४ यत्र स दृश्यते । ५ कः । ६ यस्ते अस्याः हेतुः । ७ किमेष मेऽङ्गसंतापः । ८ यस्तस्यापि हेतुः । ९ को वा तस्य हेतुः । १० यस्तया बद्धांजल्याभ्यर्थितः।

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110