Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
द्वितीयोऽङ्कः।
(ततः प्रविशति सोत्कंठो रामः) . . रामः
उत्कंठितं हृदि यदात्मनि गोपयंत्या तद्धीतितादिव तया करसंघटेन । बद्धोंजलिः किमपरं कथयामि तस्मै
बद्धोंजलिनि तमंजलये मयापि ॥१॥ अयं च पुनरत्र मन्मथस्यावष्टंभः । यत् किल।...
सव्याजमर्थचलितानि निरीक्षितानि स्रस्तस्तनांशुकदशांतविकर्षणानि । आसन्निसर्गमधुराणि सहैव संख्या
मोघानि कान्यपि च मन्मथजल्पितानि ॥२॥ (निःश्वस्य ) अहो दुर्धरो मन्मथः । मम हि ।
अंगेष्वनंगस्य शराशरव्ये- .. वापुंखमनास्सफलास्तुदति ।... सीतार्थिनो मे विफलाच जाता
विश्वास्यमेषां न च सौमनस्यम् ॥३॥ न खल्वसौ सतां मनः प्रीणयति मनसिजस्य प्रवृत्तिः । (आकाशे लक्ष्य बद्धा ) .
असुलभफलप्रत्याशाभिः खलीकुरु नैव मां . घटय यदि वा त्वं कामिन्या तया रतिवल्लभ । . द्वयमपि भवान् स्वीकुर्वन् कथं च न लज्जते विघटितफलानम्रारंभा भवंति मनस्विनाम् ॥४॥ ( विभाव्य ) मा तावद्भीः अविषयप्रसक्तोऽयं परामर्शः। कुतः ।
असौ दग्धोऽनंगः प्रभवति कथं मां व्यथयितुं ... न चासौ दुर्दीतप्रकृतिसुलभो यौवनमदः ।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110