Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
मैथिलीकल्याणे
www
द्वितीयोऽङ्कः ॥२॥
- -
(ततः प्रविशति विदूषकः ) विदूषकः-पुव्वं ताव अयोज्झाउरी पहुदि तत्तहोदिं मिहिलेसरस्स पिअदुहिअरं सुण्णंतो एव्व सुददाणरज्जो विअ बह्मणो बलिअं उक्कंठिओ पिअवअस्सो । इदो पुण जदा दोलाघरए दिट्ठा तत्तहोदी सीता तदो आरभिअ अण्णारिसहिअओ चिंतोवराअकलुसिअणअणो ण सअणे णिव्वुदि लहेइ ण णिसासु णिइं पडिवज्जइ केवलं तं चेअ ज्झेउं पारेदि । मं पुण सीआविहारुद्देसदस्सणत्थं तहिं तहिं पेसंतो खणमेत्तंवि अप्पणो पासे विस्सद्धं ठादु ण सहइ, अहं च पुण पणठपहो विअ वच्छो इदो तदो सीअं अण्णेसंतो किअपरीभमो अप्पाणं केवलं आआसेमि । एसा पुण सीदा दस्साहिअ विअ देवदा ण कदाइ सण्णिहिं पडिवज्जइ (सनिर्वेदं ) एवं च अणिवत्तिअमित्तजणोइदसक्कारदाए बद्धसोहत्थो णिविण्णो दाणिं अहं पिअवअस्सं दटुं तहवि सिणेहपरिहीणो ण तेण विणा खणं पि वट्टि खमे ता दाणिं वअस्सस्स येव्व पासं गमिस्सं । ( परिकाम्यति )
१ पूर्व तावदयोध्यापुरी प्रभृति तत्रभवती मिथिलेश्वरस्य प्रियदुहितरं शण्वन्नेव श्रुतदानराज्य इव ब्राह्मणो बलवदुत्कंठितो प्रियवयस्यः । इतः पुनर्यदा दोलागृहे दृष्टा तत्रभवती सीता तत आरभ्य अन्यादृशहृदयः चिंतोपरागकलुषितनयनो न शयने निर्वृतिं लभते न निशासु निद्रां प्रतिपद्यते केवलं तामेव ध्यातुं पारयति । मां पुनः सीताविहारोद्देशदर्शनार्थे तस्मिन् तस्मिन् प्रेषयन् क्षणमात्रमप्यात्मनः पार्वे विस्रब्धं स्थातुं न सहते अहं च पुनः प्रणष्टपट इव वत्स इतस्ततः सीतामन्वेषन् कृतपरिभ्रम आत्मानं केवलमायासयामि । एषा पुनः सीता दुस्साधिता इव देवता न कदापि संनिधि प्रतिपद्यते । एवं चानिवर्तितमित्रजनोचितसत्कारतया बंध्यासौहार्दनिर्विण्ण इदानीमहं प्रियवयस्यं दृष्टुं तथापि स्नेहपराधीनो न तेन विना क्षणमपि वर्तितुं क्षम तस्मादिदानी वयस्यस्यैव पार्वं गमिष्ये।

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110