SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः। (ततः प्रविशति सोत्कंठो रामः) . . रामः उत्कंठितं हृदि यदात्मनि गोपयंत्या तद्धीतितादिव तया करसंघटेन । बद्धोंजलिः किमपरं कथयामि तस्मै बद्धोंजलिनि तमंजलये मयापि ॥१॥ अयं च पुनरत्र मन्मथस्यावष्टंभः । यत् किल।... सव्याजमर्थचलितानि निरीक्षितानि स्रस्तस्तनांशुकदशांतविकर्षणानि । आसन्निसर्गमधुराणि सहैव संख्या मोघानि कान्यपि च मन्मथजल्पितानि ॥२॥ (निःश्वस्य ) अहो दुर्धरो मन्मथः । मम हि । अंगेष्वनंगस्य शराशरव्ये- .. वापुंखमनास्सफलास्तुदति ।... सीतार्थिनो मे विफलाच जाता विश्वास्यमेषां न च सौमनस्यम् ॥३॥ न खल्वसौ सतां मनः प्रीणयति मनसिजस्य प्रवृत्तिः । (आकाशे लक्ष्य बद्धा ) . असुलभफलप्रत्याशाभिः खलीकुरु नैव मां . घटय यदि वा त्वं कामिन्या तया रतिवल्लभ । . द्वयमपि भवान् स्वीकुर्वन् कथं च न लज्जते विघटितफलानम्रारंभा भवंति मनस्विनाम् ॥४॥ ( विभाव्य ) मा तावद्भीः अविषयप्रसक्तोऽयं परामर्शः। कुतः । असौ दग्धोऽनंगः प्रभवति कथं मां व्यथयितुं ... न चासौ दुर्दीतप्रकृतिसुलभो यौवनमदः ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy