________________
मैथिलीकल्याणे
उपालंभस्थानं न परमपि पश्यामि विमृशन्
स्वयं सीता सैव प्रसभमिह मामुत्सुकयति ॥५॥ विदूषकः- (पुरो विलोक्य) ऐसो खु पिअवअस्सो जाव उवसप्पामि । ( उपसृत्य ) जेहूं पिअवअस्सो। रामः-अशृण्वन् औत्सुक्यं खलु जनस्य सर्वथा पौरोभाग्याय । तथाहि
कृत्यांतरविनिवृत्तः कविजन इव विजनमाश्रितो देशः ।
अंतश्च किमपि जल्पन विभामि चिंतां विनम्रमुखः॥६॥ विदूषकः-(आत्मगतं ) कहं आगअंपि में ण जाणइ अण्णचित्तो वअस्सो ( पुनः प्रकाशं ) जेदु पिअवअस्सो ।
रामः-(दृष्ट्वा ) कथं वयस्य वयस्य उपविश्यतां । विदूषकः-जें वअस्सो आणवेदि । ( उपविशति ) रामः-वयस्य अपि संभाव्यते नस्समाश्वासः । विदूषकः–एवं उच्छहंते मइ किं वा ण संभाविअदि । रामः-( सादरं ) कथय क्वेदानीं द्रक्ष्यते सीता । विदूषकः-झाणे। रामः-किं तत्रापि भवानेव प्रार्थनीयः । पश्य ।
तन्मया मम संकल्पास्तन्मयं मम चिंतितम् ।
तन्मयानि ममाक्षाणि तन्मयं मम जीवितम् ॥ ७॥ विदूषकः-( सोत्प्रासं ) अण्णं ण पेक्खामि अहं तुह आतंकठाणं ।
रामः-यदि मदन्योसि तदा न पश्यसि वयस्य तिष्ठत्वेतत् किं भवानत्र मैथिली प्रति समर्थयते ।
१. एष खलु प्रियवयस्यः यावदुपसामि । २ जयतु प्रियवयस्यः। ३ कथमागतमपि मां न जानाति अन्यचित्तो वयस्यः। ४ जयतु प्रियवयस्यः। ५ यद्वयस्य आज्ञापयति । ६ एवमुत्सहमाने मयि किं वा न संभाव्यते। ७ ध्याने । ८ अन्यन्न पश्यामि अहं तवातंकस्थानम् ।