________________
द्वितीयोऽङ्कः।
विदूषकः-सुणाहि दाव एअं समाहि। रामः-समाहितमनसः स्मः । विदूषकः-सुंद एव्व दाव भवं कण्णपरंपराए समूसुएइ जुवइजणं किं पुण कामदेवभवणे तह दिट्रो तह अ णाम संभाविदो ।
रामः-तथैव हि भवतोक्तं । विदूषकः-जंह अ मोहं परिणमिस्सदि। राम-भवांस्तु कामं सूनृतवचनः । सा पुनरस्माकं दुर्लभदर्शना । विदूषकः-कह दुल्लहदस्सणा लद्धपुव्वं खु ताए दस्सणं । रामः
अपरिहृतविमर्द संगमं न प्रतीक्ष्ये प्रणयरसनिषिक्तं नैव संभाषितं च । यदि भवति ममासौ स्वैरमद्यापि दृश्या
किमिव मम कृतित्वे शिष्यतेऽन्विष्यते वा ॥ ८॥ विदूषकः-( सस्मितं ) अद्धीयेव्व केवलं तत्तहोदिदस्सणे तुह किदत्थदाए अवसेसो।
रामः-किमिव । विदूषकः-तह खु अहं उव्वाहसत्थिवाअणसक्कारं ण लंभिदो होमि ।
रामः-(सस्मितं ) तेन हि मम कृतित्वमवशिष्यत इति साधूक्तमविकलमेव कृतित्वमनवलीढमास्त इति ब्रूहि ।
१ शृणु तावदेतत् समाहितं । २ श्रुत एव तावद्भवान् कर्णपरंपरया समुत्सुकयति युवतिजनं किं पुनः कामदेवभवने तथा दृष्टः तथा च नाम संभावितः । ३ यदा मोह परिणमिष्यति। ४ कथं दुर्लभदर्शना लब्धपूर्व खलु तस्या दर्शनं । ५ अस्यैव केवलं तत्रभवतिदर्शने तव कृतार्थतया अवशेषः । ६ तथा खलु अहं उद्वाहस्वस्तिवाचकसत्कारं न लंभितो भवामि ।