SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २२ मैथिलीकल्याणे विदूषकः-ऐव्वं एअं जह उव्वाहसाथवाअणोवहारसक्करेण समाराहिओ भविस्संत तह तुमपि अइरेण तत्तहोदिपरिणअणकल्लाणं लहेहि । रामः-शिरसा प्रतिगृह्णीमहे। . विदूषकः-पुव्वं करेण गहिस्ससि पुणो सिरेण । रामः-वयस्य साध्वीमिमामुक्तिं पश्य न तथा दयिता समन्मथा च तथा पातितमधु वीक्षितं मनसः परितोषणं यथा प्रियमित्रैः कथितं प्रियां प्रति । विदूषकः-अणारााहअवअस्सस्स मारिसस्स जणस्स केवलं लज्जाए होदि पअत्तो। रामः-अलमुदगेन । कुतः । अनवाप्तफलो यथा वयस्यः प्रियमित्रस्य कृते कृतप्रयत्नः विवृणोति सुहृत्त्वमत्युदार न तथाऽवाप्तफलो विना प्रयत्नात् । विदूषकः-होर्दु एवं तहवि कहं विअ तुम अप्पलहुअं एवं कालं अइवाहइस्सिसि । रामः-क्व नु खलु वयं दुरतिवाहमेनं कालमतिवाहयामः । विदूषकः- ( विचारयन् ) सो देसो तारिसो एसो देसो एरिसो (विभाव्य ) आ वअस्स दिहो खु तुह विणोदणजोग्गो पएसो। रामः-कथय । विदूषकः-अँत्थि राजघरअस्स उत्तरदो माहविवणं णाम मणोविलोहणं उववणं तहिं दाव गच्छेमो । १ एवमेतद्यथोद्वाहस्वस्तिकोपहारसत्कारेण समाराधितो भविष्यामि तथा त्वमपि अचिरेण तत्रभवंतीपरिणयनकल्याणं लभस्व । २ पूर्व करेण गृहीष्यसि पुनः शिरसा। ३ अनाराधितवयस्यस्य मादृशस्य जनस्य केवलं लज्जायै भवति प्रयत्नः । ४ भवत्वेवं तथापि कथमिव त्वमल्पलघुकं एनं कालं अतिवाहयिष्यसि । ५ स देशस्तादृशः एष देश ईदृशः । ६ आ वयस्य दृष्टः खलु तव विनोदयोग्यः प्रदेशः । ७ अस्ति राजगृहस्योत्तरतः माधवीवन नाम मनोविलोभनमुपवनं तस्मिन् तावद्गमिष्यावः ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy